SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ "प्रथम: चक्कवट्टिस्स कहा" ॥१४॥ KXXXXXXXXXXXXXXXXXXXXXXX पुत्रश्चतुर्विधसङ्घसमक्षं प्राब्राजिषम् । एवं सत्यस्मात्स्थानालजया गृहं गन्तुं न युज्यते । श्रामण्यं च मुहूर्त्तमप्युद्वो न * शक्यते । सङ्कटे पतितोऽस्मि । “अथवाऽस्त्येष पन्थाः, यन्मनोवाक्कायदण्डानां जयिन इमे श्रमणाः। तैश्च विजितोऽहं श्रीभरतत्रिदण्डिको भविष्यामि । पते सर्वविरताः, अहं देशविरतः स्याम् । एते विगतमोहाः, अहं तु मोहमग्न इति तचिह्न चक्रवर्तीछत्रं धारयिष्यामि । एते निष्कषायाः श्वेताम्बराः, अहं सकषाय इति तत्स्मृत्यै काषायाणि वस्त्राणि धारयिष्यामि । चरितम्।' एते पापभीता जलारम्भं त्यजन्ति, ममापरिमितेन जलेन स्नानाद्यस्तु ।" एवं चिन्तयित्वा तादृशं लिङ्ग स्वीकृत्य स्वामिना सह विजहार। तदा च महर्षिषु विजातीयं तं दृष्टा जनाः कौतुकाद्धर्म पप्रच्छुः । स साधुधर्ममुपादिशत्, किन्तु स्वयं तदनाचरणेऽशक्ति हेतुं जगाद। तथा स मरीचि दीक्षार्थिनो भव्यान प्रतिबोध्य स्वामिसमीपं प्रेषयामास। स्वामी च तेभ्यो दीक्षा ददौ । ____एकदा स्वामिना साध विहरतो मरीचेः शरीरे रोग उत्पेदे । किन्तु व्रतभ्रष्टः स मुनिभिर्नाऽपाल्यत । अजातोपचारश्च स व्याधिनाऽधिकं पीडितोऽभूत् । तदा स चिन्तयामास-“ममात्रैव भवेऽशुभं कर्मोदीर्णम् । यदेते स्वेऽपि साधवः परमिवोपेक्षन्ते । एते सावविरताः सावद्यनिरतस्य मे वैयावृश्यं कथं कुर्युः १ । तत्स्वोपचाराय कमप्यन्यमल्पधर्माणमन्वेषयामि" । एवं चिन्तयन् स कथमपि नीरोगो जातः। ___अन्यदा च वृषभस्वामिनः पार्थे कपिलो नाम राजपुत्रः समाययौ । स्वामिदेशनां च श्रुतवान् । तत्र कथितो धर्मश्च कपिलाय नितरां रुरुचे। धर्मान्तरं शुश्रूषुश्चेतस्ततो दृष्टिं क्षिपन मरीचिं दृष्ट्वा तत्समीपं गत्वा धर्म पप्रच्छ । तदा ॥१४॥ XXXXXXXXXXXX Jain Educati e mational For Personal & Private Use Only library.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy