________________
॥१३॥
पञ्चमुष्टिको लोचः कृतः, अर्पितो देवतया रजोहरणादिसाधुवेषः, चारित्रं च गृहीतम्.
गृहीतवेषं निजसद्दोदरं दृष्ट्वा भरतः स्वकर्मणा लजितः, नयनयोरणि वर्षन्मुहुर्मुहुश्चरणयोः पपात. धन्यस्त्वं क्षमस्व मदीयापराधं ! अनुगृहाण राज्यलक्ष्मी बाहुबलिसाधुनोक्तं अनित्योऽयंराज्यलक्ष्मीविलासः अनित्यं यौवनमनित्यं शरीरं, दुरन्ता विषयाः, इत्याधुपदेशदानेन भरतं वैराग्यवासनावशं विधाय स तत्रैव ध्यानमुद्रया तस्थौ. मनसि विचारयति छमस्थोऽहं कथं लघुवांधवान् वन्दिप्ये १ इति मानोद्धरकंधरः स कायोत्सर्गेण तस्थौ. भरतोऽपि तं बंदिस्वा सोमयशसे बाहुबलिराज्यं दत्वा स्वस्थानं गतः, बाहुबलिरपि वर्ष यावद शीतवातातपादिपरीषहान् सहन् सन् दवदग्धस्थाणुकन्पं शरीरं कृतवान् , वल्लिभिरभिवेष्टिता तनुः, प्ररूढा दर्भशूच्यः, चरणयोवल्मिकाः समुद्गताः, प्रसूता कूर्चादौ शकुनयश्चेति. ततो भगवता बाहुबलिभगिन्यौ ब्राह्मीसुंदरीनाम्न्यौ तं प्रतिबोधनार्थमादिष्टौ. तत्र गत्वा भगवतीभ्यामेवं वक्तव्यं, हे बान्धव ! गजादवतरेत्युपदिश्य तत्पार्श्व प्रहिते ते भगिन्यौ तत्र गत्वा भ्रातरं वंदित्वैवं कथयतः स्म, हे बन्धो, गजादवतर? इति भगिनीवचनं श्रुत्वा स मनसा दध्यावहो मुक्तसंगस्य मे हस्ती कृतः ? भगिन्यौ ! किं कथयतः १ प्राः ज्ञातं मान इति हस्ती सत्यमेवोक्तं, धिङमा दुष्टचित्तधारकम् ! वंद्यास्ते मदनुजाः, व्रजामि वंदितु मित्युत्पाटितचरणः केवलज्ञानमापदिति तत्र गत्वा प्रभुवन्दित्वा स केवलिसमायामुपविष्ट इति ।
अथेतश्च ऋषभप्रभोः शिष्यो भरतात्मजो मरीचिरेकादशाङ्गाऽध्येता श्रमणगुणसमन्वितः स्वभावसुकुमारः स्वामिना समं विहरन् ग्रीष्मे सर्वतः सूर्यातपतप्तस्तृष्णाऽऽक्रान्तोऽचिन्तयत्-"अहं केवलिन ऋषभस्वामिनः पौत्रश्चक्रिणो भरतस्य
॥१३॥
wa
library.org
Jain Education
Laboral
For Personal & Private Use Only