SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ "प्रथमः चक्कवट्टिस्स RRRRRRXXX श्रीभरत कहा" चक्रवर्तीचरितम्" ॥ १२॥ XXXXXKR केनात्राहूतोऽयं भरतः १ किमर्थमत्रागतः १ अतृप्तस्यैतस्य लज्जा नास्ति. सर्वेषां बन्धूनां राज्यानि गृहीत्वा मदीयं राज्यं गृहीतुमयमागतोऽस्ति. परंत्वनेन न ज्ञातं, यहि सर्वेषु विलेषु मूषका एव, अतोऽहं नापसरामि, मानहाने प्राणहानिरेव वरं, तथा चोक्तं अधमा धनमिच्छति । धनमाने च मध्यमाः॥ उत्तमा मानमिच्छन्ति । मानो हि महतां धनम् ॥१॥ वरं प्राणपरित्यागो। मा मानपरिखण्डनं ॥ मत्योस्तत्क्षणिका पीडा । मानखण्डे दिने दिने ॥ २॥ इति बाहुबलेनैश्चयिक वचः श्रुत्वा इन्द्रेणोक्तं. एवं चेनिश्चयस्तर्हि द्वाभ्यामेव बन्धुभ्यां द्वन्द्वयुद्ध विधेय, किमर्थ लोकसंहारोऽयम् ? पञ्चयुद्धानि स्थापितानि, दृष्टियुद्ध, वाग्युद्ध, बाहुयुद्ध, मुष्टियुद्ध, दन्डयुद्ध चेति. भरतेनापि तान्यंगीकृतानि, द्वौ बांधवौ सैन्यं मुक्त्वा सन्मुखमागतो. प्रथमं दृग्युद्ध प्रारब्धं दृष्टया दृष्टौ मिलितायां सत्यां प्रथमं चक्रिनयने अश्रुजलाविले जाते साक्षिकैर्देवैः कथितं पराजितोऽयं चक्री जितोऽयं बाहुबलिः, एवं पञ्चभिरपि युद्धैर्जितो बाहुबलिः, विलक्षीभूतेन चक्रिणा मर्यादा मुक्त्वा चक्रं मुक्तं, बाहुबलिनोक्तं मैवं कुरु ? सतां मर्यादातिक्रमो नैव युक्तः, तथापि तेन चक्रं मुक्तं, बाहुबलिना मुष्टिरुत्पाटिता, चिन्तितं चानया मुष्टया सचक्रमेनं चूर्णयामि. चक्रं बाहुबलिसमीपमागत्य त्रिप्रदक्षिणीकृस्यपश्चाद्वलितं, गोत्रमध्ये चक्रं न चलतीति. अथ बाहुबलिना चिंतितमनया वज्रतुन्यमुष्टयैनं भरतं मृन्मयभाण्डमिव चूर्णीकरोमोति. पुनरपि तेन विचारितमहो सुखलवनिमित्तं किमियं बान्धवहानिर्विमृष्टा ! धिक् नरकान्त राज्यम् ! धिम्विषयान्, धन्या मदनुजा येऽनर्थहेतुकं राज्यं त्यक्त्वा जगृहुः संयम इति जातवैराग्येण बाहुबलिना मुष्टिमस्तके न्यस्ता, RXXX ॥१२॥ Jain Educatul national Mehelibrary.org For Personal & Private Use Only
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy