SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXXXXXXXXXXXXXX वैरिहृदयं विदारयंति. एवं स्वामिना भ्रूसंज्ञया हक्कारितं भटैरुत्कटं रणमारब्धं, यदुक्तं-राजा तुष्टोऽपि भृत्यानां, मानमात्रं प्रयच्छति । ते तु सन्मानमात्रेण, प्राणैरप्युपकुर्वते ॥ १॥ मित्रं मित्राय वक्ति कातरो मा भव ? रणे उभयथा सौख्यं, जिते सति इह लोके सौख्यं मते सति सुरवल्लभालिंगनादिजनितं सौख्यं लभ्यते. तथा चोक्तं-जिते च लभ्यते लक्ष्मी-मृते चापि सरांगना । क्षणविध्वंसिनी काया, का चिंता मरणे रणे ॥१॥ एवं युद्धे जायमाने द्वादश वर्षाणि व्यतीतानि. किमपि सैन्यं न पश्चाद्वलितं. एतस्मिन्नवसरे देवानां कोटयो युद्धविलोकनार्थ नभोमण्डलमार्गेणागताः, सौधर्मेन्द्रेणागत्य चिंतितमहो विषमा कर्मणां गतिः ! यत्सोदरावपि राज्यलवनिमित्तं मनुष्याणां कोटि विघट्टयतः, अहोऽहं तत्र गत्वा युद्ध निवारयामीति बुद्ध्या इन्द्रेणागत्य भरताय निवेदितं, भो षट्खण्डाधिपते ? किंकरीभृताऽनेकभूमिपते हे प्रभो किमिदमारब्धं त्वया ? हेलया कि जगत्संहरणं करोषि ? श्रीऋषभेण या चिरकालं पालिता, तां प्रजां किं संहरसि १ सुपुत्रस्य तदैतदाचरणं न घटते. यत्पित्राऽऽचरितं तत्पुत्रेणाप्याचरितव्यं, इत्यपसर लोकसंहरणात्. भरतेनोक्तं तातभक्तैर्भवद्भिर्यदुक्तं तत्सत्यं, अहमपि जानामि, परं किं करोमि १ चक्रमायुधशालायां नागच्छति, एकवारं यदि मम समीपेऽयं समागच्छति तदान्यत्किमपि मम कृत्यं नास्ति, अस्य राज्येन मम कृत्यं नास्ति, अतो गत्वा तमेव मदनुजं कथयध्वम् । इति भरतवाक्यं श्रुत्वा शक्रो बाहुबलिपार्श्व गतः बाहुबलिना महती भक्तिः कृता, उक्तं च स्वामिन्नादिश्यतां किमागमनप्रयोजनम् १ इन्द्रेणोक्तं तवैतन्न घटते यत्पित्तुल्येन वृद्धभ्रात्रा साद्ध युद्ध करोषि, अतस्त्वं गत्वा नमस्वापराधं च क्षामय । लोकसंहरणादपसर । बाहुबलिनोक्तमेतस्यैवायं दोषः, EXXXXXXXXXXXXXXXXXXXXXXXX ॥११ lelibrary.org For Personal & Private Use Only Jain Education
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy