SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॥१२॥ तयोः स्वागतं पृष्टम् । ताभ्यां पूर्ववृत्तान्तकथनपूर्वकं स्वाभिप्रायः साधोः कथितः । साधुना कथितम्--न युक्तमनेकशास्त्रावदातबुद्धीनां भवादृशानां गिरिपतनमरणम् । सर्वदुःखक्षयकारणं श्रीवीतरागधर्म गृह्णन्तु । इति पञ्चमहाव्रतरूपः श्रीवीतरागधर्मस्तयोः कथितः । ततस्ताभ्यां तस्य मुनेः समीपे दीक्षा गृहीता। कालक्रमेण तौ गीताौँ जातौ । ततः स्वगुज्ञिया षष्ठा-ष्टम-दशम द्वादशा-ऽर्धमास-मासक्षपणादितपोभिरात्मानं भावयन्तौ ग्रामानुग्रामं विहरन्तौ कालान्तरेण हस्तिनागपुरं प्राप्ती बहिरुद्याने च स्थितौ।। ___ अन्यदा मासक्षपणपारणके सम्भूतसाधुनगरमध्ये भिक्षार्थ प्रविष्टः । गृहानुग्रहं भ्रमन राजमार्गानुगतो गवाक्षस्थेन नमुचिमन्त्रिणा दृष्टः, प्रत्यभिज्ञातश्च । चिन्तितं च स एष मातङ्गदारको मदध्यापितो मच्चरित्रमशेषमपि जानबस्ति कदाचिच्च लोकाग्रे वक्ष्यते, तदा मन्महत्वभ्रंशो भविष्यतीति मत्वा दूतैः स मुनिर्यष्टिमुष्टथाविभिर्भारयित्वा नमुचिना नगराबहिनिष्कासयितुमारब्धः, निरपराधस्य हन्यमानस्य तस्य कोपकरालितस्य मुखाग्निर्गतः प्रथमं धूम स्तोमा, तेन सर्वमपि नगरमन्धकारितम् भयकौतूहलाक्रान्ता नागरास्तत्रायाता। क्रोधाक्ष्मातं तं मुनि दृष्टा सर्वेऽपि * प्रसादयितुं प्रवृत्ताः । सनत्कुमारचक्रवर्त्यपि तत्रायातः । तं प्रसादयितुं प्रवृत्त एवं बभाण-भगवन् ! यदस्मादृशैर ज्ञानरपराद्ध तद्भवद्भिः क्षमणीयम् । संहरन्तु तपस्तेजःप्रभावम् । कुर्वन्तु ममोपरि प्रसादं सर्वनागरिकजीवितप्रदानेन । पुनरेवंविधमपराधं न करिष्यामः । इत्यादि चक्रिणाप्युक्तोऽसौ यावन्न प्रशाम्यति, तावदुद्यानस्थश्चित्रसाधुर्जनापवादात्तं कुपितं ज्ञात्वा तस्य समीपमागत एवमुवाच । भो सम्भूतसाधो! उपशामय कोपानलम् , उपशमप्रधानाः श्रमणा ॥१२॥ Jain Educa ! For Persona 3 Private Use Only Plelorary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy