SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कवट्टिस्स कहा" . श्रीशान्ति| नाथचक्रवर्तिचरितम्" ।७०॥ XXXXXXXXXXXXXXXXXXX वज्र दृष्टवतीति पिता तस्य समहोत्सवं वज्रायुध इति नामाऽकरोत् । क्रमेण वर्धमानश्च स सर्व कलाकुशलो यौवनं प्रपेदे । तथा लक्ष्मीमिव सुलक्षणां लक्ष्मीवती नाम राजपुत्रीमुपायंस्त । तस्याः कुक्षौ चाऽनन्तवीर्यजीवोऽच्युताच्च्युत्वाऽवततार । सुस्वप्नसूचितं सुलक्षणं सुतं च सा पूर्णे समयेऽसूत । पितरौ च तस्य समहोत्सवं सहस्रायुध इति नाम चक्रतुः । स च चन्द्र इव क्रमशो वर्धमानः कलाकलापसम्पन्नो यौवनं प्रपद्य कनकश्रियं नाम राजकन्या रूपलावण्यवती परिणिनाय । तस्यां च तस्य सहस्रायुधस्य शतवलि म महाबलः सम्पूर्णलक्षणः पुत्रोऽजनि । एकदा च पुत्रपौत्रादिपरिवारयुतः क्षेमकरो नृपः सभामध्यास्त । तदा चैशानकल्पे देवानां चर्चा जाता "सम्यक्त्वशालिषु वज्रायुधः श्रेष्ठः" इति । तामश्रद्दधानश्चित्रचूलाऽभिधो देवो विविदिषया नास्तिको भूत्वा क्षेमङ्करपर्षदं समाययौ । तत्र च विविधेष्वालापेषु जायमानेषु स देव आस्तिक्यमाक्षिप्याऽवदव-"पुण्यं पापो जीवः परलोकश्च नास्ति । एतेषामास्तिक्यबुद्धया देहिनो मुधा क्लिश्यन्ति । ततो वज्रायुधोऽवोचत्-"प्रत्यक्षविरुद्धमेतत्त्वद्वचः । त्वमवधि प्रयुज्य सम्यक्पश्य । तवैतद्वैभवं प्राग्जन्मधर्माऽनुष्ठानफलमेव । त्वं पूर्वजन्मनि मोऽभवोऽधुना चाऽमयः। यदि जीवो न भवति, कथमेतद्धटते १, तब्रूहि । इह मर्त्यत्वमाप्तस्य तव परत्र देवत्वमिति परल कोऽपि प्रत्यक्षसिद्ध एव ।" एवञ्च तेन प्रबोधितः स चित्रचूलः साधु साध्वित्युवाच । त्वया कृपालुना संसारे निपतन्नेषोऽहमुद्धृतोऽस्मि । अथवा तव किमुच्यते ? यस्य पिता तीर्थङ्करः । चिरान्मिथ्यात्ववानस्मि, तन्मे सम्यक्त्वरत्नं देहि । ततो वज्रायुधोऽपि सर्वज्ञपुत्रस्तद्भावं ज्ञात्वा तस्मै सम्यक्त्वं दिदेश। ततश्चित्रचूलः पुनरूचे-"कुमार । अद्य प्रभृति तवाऽहमादेशकारी, XXXXXXXXXXXXXXXXXXXXX ॥७०॥ Jain Educalerational For Personal & Private Use Only nelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy