________________
॥७१॥
तदद्यैव किञ्चन याचस्व"। ततः कुमार उवाच-"यद्येवं तमु तः परं त्वया दृढ़सम्यक्त्ववता भाव्यमिति याचे" । एतत्तु मम स्वार्थमेव, अतः किश्चिदन्यत्कार्य ब्रहीति देवेनोक्तो ममैवैतत्कार्यमिति कुमार उवाच । ततः स देवस्तस्मै दिव्याऽलङ्करणानि दत्त्वैशानेन्द्रसभां गत्वाऽवोचत्-"दृढ़सम्यक्त्ववानयं वज्रायुधः । अयं महात्मा भगवानहन् भावी" । तत ईशानपतिवज्रायुधमस्तावीत् ।
एकदा च वसन्तसमये वसन्तपुष्पाऽलङ्कारा सुदर्शनानाम्नी वेश्या वज्रायुधमजिज्ञपत्-"अद्य यूनां क्रीडासखः कामस्य जयसखोऽयं वसन्तो विजृम्भते । तत्स्वामिनी लक्ष्मीवती मया त्वां विज्ञापयति-यत्सूरनिपाताख्यमुद्यानं गत्वा तत्र मधुश्रियं द्रष्टुं नः कौतुकम् । तदा तदनुमन्य तदैव स कुमारः सपरिच्छदस्तदुद्यानं जगाम । लक्ष्मीवतीप्रभृतीनि च सप्तदेवीशतानि ताराश्चन्द्रमिव तं कुमारमनुयान्ति स्म । तत्र गत्वा च विविधक्रीडाभिस्तद्द्यानं कुमारो विजहार । तेन विहारेण श्रान्तः सवधृजनः स जलक्रीडार्थ प्रियदर्शनां नाम वापी गत्वा तत्र प्रविश्य गिरिणद्यां द्विप इव प्रेयसीभिः समं क्रीडितुं प्रावत्तिष्ट । जलक्रीडया व्यग्रमानसे तस्मिन् कुमारे स्थिते च प्राग्जन्मशत्रुर्दमितारिजीवश्चिरं भवं भ्रान्त्वा देवत्वं प्राप्तो विद्युदंष्ट्राऽभिधस्तत्रोपेत्य तं दृष्ट्रा क्रुद्धः कुमारं सपरिच्छदं पेष्टुं तस्या वाप्या उपरिष्टात्पर्वतमुक्षिप्य चिक्षेप । नागपाशैश्च तं वज्रायुधं पदोरधो बबन्ध । ततो वज्री गिरिमिव स वज्रायुधस्तं पर्वतं मुष्टथा पिपेष । तान् पाशांश्च विसतन्तुवत्त्रोटयामास । ततस्तस्या वाप्याः सान्तःपुरपरीवारो निर्गतो नन्दीश्वरं गन्तुं विदेहजान् जिनानत्वा बजता शक्रेण दृष्टोऽत्र भवे चक्रयसो भाविन्यहन्निति सोपचारं पूजितो "धन्योऽसि त्वं षोडशस्तीथङ्करः शान्ति
K४४
॥७२॥
Jain Education International
For Persona & Private Use Only
Birtelibrary.org