SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ "श्री "पश्चमः [कवाट्टिस्स कहा" ॥ ७२॥ र्भावी" त्युक्तश्च यदृच्छया क्रीडन् निजं पुरं प्रविवेश । अथ क्षेमङ्करो लोकान्तिकाऽमरैः प्रबोधितो दीक्षोत्सुको राज्ये वज्रायुधं निवेश्य वार्षिकं दानं प्रदाय प्रव्रज्या |श्रीशान्तिमादाय विविधाऽभिग्रहपरो दुस्तपं तपस्तप्त्वा घातिकर्मनाशादुत्पन्नकेवलो देवैः कृतकेवलज्ञानोत्सवः समवसरणस्थितो देशनां व्यधात् । तां च देशनां श्रुत्वा बहवो लोकाः प्राव्रजन् । वज्रायुधादयश्च स्वं स्वं स्थानं ययुः। | चक्रवर्तिअथाऽस्त्रागारिको वज्रायुधस्य 'अस्त्रागारे चक्ररत्नमुत्पन्नमिति मुदाऽकथयत् । ततो वज्रायुधो महीयसी चक्र चरितम्" पूजां चक्रे । अन्यान्यपि च त्रयोदश महारत्नानि तस्याऽभूवन । तथा चक्ररत्नाऽनुगः स पटखण्डं मङ्गलावतीविजयं सवैताढ्यमहीधरं व्यजेष्ट, सहस्रायुधकुमारं च यौवराज्ये न्यधत्त । एकदा च स वज्रायधः सामन्तादिपरिवृतः सभामण्डपमध्यास्त । तदानी चाऽम्बरतलादेको विद्याधरयवा शरणाय तमागात् । तत्पृष्ठे च विद्याधरी खड्गफलकधरा सुरेखाऽप्यागात् । सा च चक्रिणमूचे-"देव ! अयं दुरात्मा । विसृज्यताम् । यथाऽस्य दुर्नयफलमचिरादर्शयामि" । तत्पृष्ठतश्च गदापाणिर्यमदूत इव भीषणः क्रुद्धः कोऽपि विद्याधरः समागात् स उवाच-"अस्य दुर्नयः श्रूयताम् । येनाऽहमियं चाऽस्य वधेच्छया समागतौ । अस्य जम्बूद्वीपस्य विदेहक्षेत्रे सुकच्छनाम्नि विजये वैताढये पुरोत्तमे शुल्कपुरपुरे शुक्लदन्तनृपस्य यशोधरायां पल्यामहं पवनवेगो नाम तनयः । क्रमात्कलाकलापं यौवनं च प्रपन्नस्तत्रैव पुरे किन्नरगीते पुरे दीप्तचूलनृपस्य चन्द्रकीर्तिनाम्न्यां पत्न्यां जातां ॥७२॥ सुकान्तां परिणीतवान् । तस्यां जाता तव पुरःस्थितेयं मम पुत्री शान्तिमती नाम । सेयं मणिसागरे पर्वते प्रज्ञप्तिका EXXXXXXXXXXXXXXXXXXXXXXXX Jain Educal e mnational For Personal & Private Use Only elibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy