SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ॥७३॥ *:********** विद्या साधयन्त्यनेन विद्याधरेण व्योमन्यचिक्षिपे। तदानीमेव चाऽस्या विद्याऽसिद्धयत् । ततः पलायितोऽयं विद्या धराऽधमः क्वाऽपि शरणमलभमानस्त्वत्पादमूलं प्राप्तोऽस्ति । अहं प्रज्ञप्तिविद्यापूजार्थं बलिं गृहीत्वा समागतस्तत्र गिरी निजां दुहितरमपश्यन्नाभोगिन्या विद्यया सर्ववृत्तं ज्ञात्वेहाऽऽगतोऽस्मि । सोऽयं दुरात्मा त्यज्यताम् । यथाऽनया गदया दलयित्वैनं यमपुरं प्रेषयामि" । ततोऽवधिज्ञानाज्ज्ञात्वा वज्रायुधश्चक्रयवोचत्-"भोः ! अस्य प्राग्भवसम्बन्धः शृयताम् । अस्यैव जम्बूद्वीपस्यैरावते क्षेत्रे विन्ध्यपुरे नगरे विन्ध्यदत्तो नाम नृपोऽभवत् । तस्य च सुलक्षणाख्यायां पत्न्या नलिनकेतुनामा सुतोऽभवत् । तत्रैव च नगरे धर्ममित्रो नाम सार्थवाहोऽभवत् । तस्य च श्रीदत्तायां पल्यां दत्तो नाम सुतोऽभवत् । दत्तस्य च प्रभङ्करा नाम दिव्यरूपा पल्यासीत । एकदा स वसन्ततौं तया दयितया समं रन्तमद्यानं ययौ । नलिनकेतुश्च तदैव तत्राऽऽगतः प्रभङ्करां दृष्ट्वा तद्रपमोहितः कामातस्तामहार्षीत् । तथा तया सह क्रीडोद्यानादिषु यथेच्छं रेमे । दत्तश्च तद्विरहानलपीडित उन्मत्त इव प्रभङ्करां ध्यायंस्तत्रोद्याने बभ्राम । भ्रमता च तेन सुमना नाम मुनिर्ददृशे । तदानीमेव च तस्य मुनेः केवलमुत्पन्नम् । देवैश्च तस्य केवलज्ञानमहिमा चक्रे । दत्तोऽपि च मुनि वन्दित्वा देशनां श्रुत्वा क्षणात्तापं विहायोपशान्तो दानकर्मनिरतः शुभध्यानी प्रकृष्टं पुरुषायुषमतिवाट जम्बूद्वीपे प्राग्विदेहे सुकच्छे विजये वैताढये स्वर्णतिलके पुरे विद्याधरनरेन्द्रस्था महेन्द्रविक्रमाकस्य पत्न्यामनिलवेगायां पुत्ररूपेणोदपद्यत । नपश्च तस्याऽजितसेन इति नाम दधौ । विधिवद्विविधा विद्याश्च ददौ । यौवनं प्रपन्नश्च सोऽजितसेमो विद्याधरकन्या: परिणीय ताभिगिरिवनादिषु रेमे । विन्ध्यदत्ते विपन्ने च विन्ध्यपुरे नलिनकेतू राजाऽभवत् । स च प्रभङ्करया साध ************** Jain Educatie International For Personal & Private Use Only wledgelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy