SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ "श्री चक्कवट्टिस्स कहा" | "पञ्चमः | श्रीशान्ति नाथ |चक्रवर्तिचरितम्" ॥८ ॥ KKKKKKKKKKKKKKKKKKKX तदानी चेशानेन्द्रोऽन्तःपुरस्थो "नमो भगवते तुभ्यमि" ति जन्पन्नमोऽकरोत । जगन्नमस्येन त्वया कस्मै नमस्क्रियाऽकारीति महिषीभिः पृष्टश्च शक्र उवाच-"पुण्डरीकिण्यां पुरि घनरथात्मजो मेघरथोऽष्टमतपः कृत्वा महाप्रतिमया स्थितोऽस्ति । स चाऽयं भावी तीर्थकरः । तदेतस्मै नमोऽकाम् । अम चाऽस्माद् ध्यानाकेऽपि चालयितुं न क्षमा" । तच्छ वा तां प्रशंसामसहिष्णू सुरूपाऽतिरूपिके शक्रमहिन्यौ राज्ञः क्षोभार्थमागत्य विविधान हावभावान् कुर्वाणे मेघरथे मोघीभृतान् तान् वीक्ष्य मेघरथं क्षमयित्वा पश्चात्तापाऽन्विते निजधाम जग्मतुः । राजाऽपि प्रतिमा पारयित्वा निशावृत्तं स्मारं स्मारं परं संवेगमाप्तवान् । प्रियमित्राऽपि च प्रियं तादृशमवलोक्य संवेगं प्राप्तवती । अथाऽन्यदा घनरथो जिनः स्वयं तत्रैत्य पूर्वोत्तरदिशि समवासार्षीत् । तज्ज्ञात्वा च मेघरथः साऽनुजो गत्वा नत्वा धर्मदेशनां श्रुत्वा जिनमब्रवीत्-"भगवन ! त्वं सर्वज्ञः सर्वहितश्चाऽसि । तथापि प्रार्थये-यावत्कुमारं राज्ये निवेश्याऽहमिह दीक्षार्थमागच्छामि, तावत्प्रतीक्षस्व' । न प्रमादो विधातव्य इत्यर्हताऽनुशिष्टश्च मेघरथो गृहं गत्वा निजात्मजं मेघसेनं राज्ये दृढरथात्मजं रथसेनं च यौवराज्येऽभिषिच्य मेघसेनेन कृतनिष्क्रमणोत्सवः सानुजः पुत्राणां सप्तशत्या राज्ञां चतुःसहस्र या च जिनाऽन्तिके प्रवज्यामग्रहीत् । परीषहानुपसर्गाश्च सहमानस्त्रिगुप्तः पश्चसमितो देहेऽपि निराकाङ्क्षो विविधाऽभिग्रहपर एकादशाङ्गीधारकः सदृढरथो मेघरथोऽर्हद्भक्तिप्रमुखैः शुभैविंशत्या स्थानकैरहन्नामगोत्रकर्मोपाज्य सिंहनिष्क्रीडितं नाम दुस्तपं तपो विधाय पूर्वलक्षमखण्डितं श्रामण्यं पालयित्वाऽम्बरतिलकं गिरिमारुह्य गिरिरिव स्थिरोऽनशनं कृत्वा पूर्णायुः सानुजो विपद्य सर्वार्थसिद्धौ त्रयस्त्रिंशत्सागरोपमायुः सुरो बभूव ॥४॥ KXXXXXXXXXXXXXX * ॥८८॥ Jain Educ a tional For Persona & Private Use Only helibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy