________________
॥८६॥
पञ्चमः सर्गः। अथाऽस्य जम्बूद्वीपस्य भारतवर्षे कुरुदेशे चैत्यहम्योद्यानादिसमृद्धे हस्तिनापुरे पुरे यशस्वी शरण्याश्रियो वाचश्चैकाऽऽस्पदमिक्ष्वाकुवंशीयो विश्वसेनो नाम नृपो बभूव । तस्य च सतीशिरोमणिः सर्वलक्षणलक्षिता शीलादिगुणसमन्विताऽचिरा नाम भार्याऽऽसीत् । तस्याश्च कुक्षौ भाद्रकृष्णसप्तम्यां भरणीस्थे चन्द्रे सर्वार्थसिद्ध-विमानतो भुक्तनिजायुर्मेघरथजीवश्च्युत्वा समवातरत् । तदानीं च निशाशेषे सुखसुप्तया तयाऽचिरादेव्या मुखे प्रविशन्तश्चतुर्दश महास्वप्ना ददृशिरे । सुप्तोत्थितया च तया प्रमुदितया विज्ञप्तो नृपो "लोकोत्तरगुणस्त्रैलोक्यत्राणकर्मठस्ते पुत्रो भावी" ति स्वप्नफलमाख्यत् । नैमित्तिका अपि च पृष्टास्तवाऽऽत्मजश्चक्री धर्मचक्री वैभिः स्वप्नैभविष्यतीत्यूचुः । तांश्च सत्कृत्य राजा विससर्ज । अचिरादेवी चाऽपि रत्नगर्भेव गर्भरत्नं बभार । तदानीं च प्रागुत्पन्नान्युकेंगरोगमार्यादीनि विहितैरपि नानोपायरनुपशान्तानि विना प्रयास गर्भप्रभावादुपशान्तानि । ततः पूर्णे समये ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे चन्द्र ग्रहेषूच्चस्थेषु साऽचिरादेवी मृगलाञ्छनं कनकवणे सुतमसूत । तदा च क्षणं जगत्त्रये समुद्योतो नारका णामपि च क्षणं सुखं समृदभूत । ततः षट्पञ्चाशदिक्कुमायः समेत्य यथाविधि सूतिकम चक्रः। शक्रश्च समेत्य प्रभु मेरौ नीत्वा तत्र सर्वैरिन्द्रादिभिः समं प्रभोः स्नानं यथाविधि विधाय नत्वा स्तुत्वा पुनः प्रभुमादायाऽऽशु गत्वाऽचिरादेव्याः पार्चे यथास्थित्यमुञ्चत । तत्र च प्रभो रक्षादिकं विधाय यथाविधि रत्नादिवृष्टिं च विधापयित्वा पञ्चधात्रीरप्सरसः समादिश्य नन्दीश्वरं गत्वाऽष्टाह्निकोत्सवं विधाय यथायथं स्वं धाम जगाम ।
SXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
॥८
॥
Jain Educ
a
tional
For Personal & Private Use Only
onelibrary.org