________________
"श्री
चक्कवट्टिस्स
कहा"
"पश्चमः
श्रीशान्ति* नाथ
चक्रवर्तिचरितम्"
॥
०
॥
XX:****XXXXXXXXXXXXXXXX
अथ देवी गतनिद्रा दिव्यवस्वादिसमन्वितं दीप्तिमन्तं सूनुमुदैक्षत । नृपश्च प्रमुदितः समहोत्सवम् 'अस्मिन् गर्भस्थेऽशिवान्यशाम्यन्नि' ति तस्य शान्तिरिति नामाऽकरोत् । प्रभुश्च शक्रसङ्कमितसुधं निजाङ्गुष्ठं पिवन धात्रीभिबल्यमानः क्रमेण वर्धमानो बालक्रीडामनुभवन् चत्वारिंशद्धनुरुत्तङ्गो यौवनं प्रपेदे । नृपश्च शान्तिना राजकन्याः पयेणाययत् । पञ्चविंशत्यब्दसहस्रान्ते च नपः शान्ति राज्ये निवेश्य स्वयं स्वार्थमसाधयत् । शान्तिश्च वसुधां यथावपालयंस्ताभी राजकन्याभिर्विषयसुखं बुभुजे ।
अथ तस्याऽयमहिषी यशोमती स्वप्ने चक्रं मुखे प्रविशद्ददर्श । तदानी च निजमायुः पूरयित्वा सर्वार्थसिद्धविमानाद् दृढ़रथजीवश्च्युत्वा तस्याः कुक्षाववातरत् । तया तत्कालं प्रबुद्धया निवेदितश्च शान्ति नित्रयधर उवाच"मम प्राग्जन्माऽनुजो दृढरथस्सर्वार्थाच्च्युत्वा तवोदरे इदनीमवातारीत । तं च पुत्रं समये प्रसविष्यसे" । ततः पूर्णे समये सा यशोमती पूर्णलक्षणं पवित्रं पुत्रं सुषुवे । शान्तिश्च तस्य 'गर्भस्थेऽस्मिन् जननी चक्रं ददर्श' ति समहोत्सवं चक्रायुध इति नाम चक्रे । स च चक्रायुधो धात्रीभिर्लान्यमानः क्रमेण वधमानो यौवनं प्रपन्नवान् । पिता च तेनाऽनेकशो राजपुत्रीः पर्यणाययत् । तदेवं राज्यं पालयतः श्रीशान्तिनाथस्य वर्षाणां पञ्चविंशतिसहस्री व्यतिक्रान्ता । तत एकदा तस्याऽस्त्रशालायां चक्ररत्नमुदभूत । शान्तिश्च तस्य चक्रस्याऽष्टाह्निकोत्सवमकारयत ।
अथाऽस्त्रशालाया निःसृत्य पूर्वाभिमुखं चलितं चक्र यक्षसहस्राधिष्ठितं सहस्रारं ससैन्यमनुसरन् शान्तिर्मागधं प्राप्य मागधेशदेबेन धृताज्ञो दत्तोपायनः प्रतिष्ठमानो दक्षिणाऽब्धिमासाद्य तत्र वरदामेशं साधयित्वा ततः प्रस्थाय
XXXXXXXX
॥8
॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org