SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॥११॥ ***** KXXXXXXXXXXXXXXXXXXXXXXXX प्रतीच्यजलधि प्राप्तः प्रभासपतिना पूजितो गृहीतशासनश्च सिन्धुदेवीमुद्दिश्य प्रचलितः सिन्धुतटं प्राप्य सिन्धुदेव्या स्तुतः स्वीकृताज्ञश्च तदने वैताढयं प्राप्य वैतादयकुमारेण पूजितस्ततस्तमिस्रागुहासमीपं गत्वा तत्र कृतमालदेवेन पूजितः शिविरं निवेशयामास । तत्र श्रीशान्तिना समादिष्टः सेनानीरत्नं सिन्धुमुत्तीय तदक्षिणनिष्कुटं साधयित्वा दण्डरत्नेन कपाटौ ताडयंस्तमिस्रागुहाद्वारमुद्घाटयामास । शान्तिश्च गजारूढस्तस्यां गुहायां प्रविश्य तमोनाशार्थं गजस्य दक्षिणे कुम्भे मणिरत्नं स्थापयित्वा गुहाया उभयोर्भित्त्योः काकिणीरत्नेनैकोनपश्चाशन्मण्डलान्यालिखन् वर्धकिरत्नेन बद्धपद्ये गुहान्तरस्थे उन्मग्नानिमग्ने नद्यावुत्तीर्य ससैन्यः स्वयमुद्धटितेनोत्तरद्वारेण गुहाया निर्गत्याऽश्वरत्नाऽऽरूढेन खड्गहस्तेन सेनान्या ध्वस्तान म्लेच्छान् पूर्वचक्रवर्त्तिवद्यथाविधि वशगान विधाय क्षुद्रहिमवगिरि गत्वा हिमवत्कुमारेण पूजितस्तत ऋषभकूटाद्रौ गत्वा काकिण्या शान्तिश्चक्रीत्यक्षराणि लिखित्वा वैताढ्यपर्वतोपत्यकाभुवं प्राप्य तत्र श्रेणिद्वयविद्याधरकुमारैः पूजितस्ततो वलितः स्वयं गङ्गां सेनान्या च तदुत्तरनिष्कुटं साधयित्वा खडप्रपाताख्यां गुहां प्राप्य नाट्यमालदेवं वशंवदं कृत्वा सेनान्या दण्डरत्नेन तां गुहामुद्घाट्य प्रविश्य पूर्ववदुन्मग्नानिमग्ने नद्यावुत्तीर्य पूर्ववन्मणिरत्नेन काकिणीकृतमण्डलेश्च तमो भिन्दन स्वयमुद्घटितेनाप्रारद्वारेण गुहाया निःसृत्य नैसर्पप्रमुखान् नवाऽपि निधीन वशगान विधाय म्लेच्छप्रचुरं गाङ्ग दक्षिणनिष्कुटं च सेनान्याऽसाधयत् । एवं क्रमेण षट्खण्डभरतमष्टभिवर्षशतैः साधयित्वा निवर्तमानः कतिभिः प्रयाणै हस्तिनापुरमाप । निजनिकेतनं प्राप्तश्चाऽमरै नृपैश्च कृतचक्रवर्तित्वाऽभिषेकः पृथक्पृथग् यक्षसहस्राधिष्ठितैश्चतुर्दशभी रत्न नवभि निधिभिश्च श्रितोऽन्तःपुरयोषितां चतुःषष्टया XXXXXXXXX *18१॥ Jain EducatidSAnational For Personal & Private Use Only clelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy