SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ *"पञ्चमः * श्रीशान्ति चक्कवट्टिस्स कहा" नाथ ॥७८॥ चक्रवर्ति चरितम्" । चतुर्थः सर्गः। अथाऽस्य जम्बूद्वीपस्य प्राग्विदेहेषु पुष्कलावत्यां विजये सीतानद्याः समीपे पुण्डरीकिण्यां नगयों घनरथो नाम नृपतिरासीत् । तस्य च प्रियमतिमनोरमानाम्न्यौ द्वे पत्न्यावास्ताम् । तत्र प्रियमत्या उदरे वज्रायुधजीवो वेयकाच्च्युत्वा समवातरत् । तदा च तया निशाशेषे स्वप्ने मुखे प्रविशन गर्जन् वर्षन विद्युद्धास्वरश्च मेघो दृष्टः । तयाऽऽख्यातस्वप्नश्च महीपतिर्मेघ इव पृथिवीसन्तापहृत्तव पुत्रो भवितेति फलं व्याजहार । मनोरमादेव्या उदरे च सहस्रायुधजीवो ग्रेवेयकाच्च्युत्वाऽवतीर्णवान् । तयाऽपि च तदा स्वप्ने किङ्किणीपताकादिशोभितो रथो ददृशे । राज्ञा च ज्ञातस्वप्नेन महारथश्रेष्ठस्तव पुत्रो भावीति फलमूचे । पूर्णे च समये ताभ्यामुभौ तनयौ सुषुवाते । राजा च शुभेऽहनि क्रमेण प्रियमत्याः सूनोर्मेघरथ इति मनोरमायाः सूनोश्च दृढ़रथ इति स्वप्नानुसारेण नाम चक्रे । तौ च क्रमेण वर्धमानौ सर्वकलाकुशलौ यौवनं प्रापतुः। अथैकदा निहतशत्रोः सुमन्दिरपुरनृपस्याऽमात्यः समेत्य घनरथं प्रणम्य व्यजिज्ञपद-"नृप ! तव कुन्दधवला कीर्तिदिक्षु निर्वाधं प्रसरति । सुमन्दिरपुरेशितुनिहतशत्रोस्तिस्रः कन्या सन्ति । तत्र मेघरथस्य द्वे दृढरथस्य चैकां स दित्सते । “तदनुमन्यस्वे" ति । तदा घनरथ ऊचे-"अमुना सम्बन्धेन नौ स्नेहो दृढीभवतु" । ततो नृपो दैवज्ञेन लग्नं निर्णीय कुमारयोरागमनं च प्रतिपद्य तं सचिवं विससर्ज । सचिवश्च प्रमुदितः सुमन्दिरपुरमेत्य नृपं निहतशत्रु तवृत्तमाख्यायाऽहषयत् । घनरथश्च दृढरथेन सहितं मेघरथं सुमन्दिरपुरं प्रति प्रेषीत् । तौ च सैन्यपरिवारपरिवृतौ EKXXXXXXXXX KXXXXXXXX *॥७ ॥ Malerary.org Jain Educ a tional For Personal Private Use Only
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy