________________
॥७७॥
वज्रायुधमुनिर्विहरन् सिद्धगिरिमुपेत्योपसर्गान् सहिष्येऽहमिति बुद्धया तत्र विरोचने स्तम्भे वार्षिकी प्रतिमां दधौ।
इतश्चाऽश्वग्रीवसुतौ मणिकुम्भो मणिकेतुश्च द्वावपि भवान् भ्रान्त्वा कृतबालतपावसुरभावमापन्नौ स्वैरचर्यया तत्र समायातौ तं मुनिमपश्यताम् । ततश्चाऽमिततेजोभववैरेण तं मुनिमुपद्रोतुं प्रारेभाते । तौ सिंहीभूयोभयोः पार्श्वयोस्तं मुनि नखरैश्चख्नतुः, कुञ्जरीभूय कराद्याघातैर्जघ्नतुः, भुजगीभूय तस्य द्वयोः पार्श्वयो ढबन्धं ललम्बाते । राक्षसीभूय च तीक्ष्णदंष्ट्राभिः पीडयामासतुः । इत्थं यावत्तौ तं मुनिमुपाद्रवताम्, तावदिन्द्रपन्योऽर्हन्तं वन्दितुं चेलुः । तस्य मुनेश्वोपसर्ग कुर्वाणौं तौ दृष्टा “आः पापौ ! युवाभ्यां किमिदमारब्धमि" ति ब्रुवाणाश्च ता गगनादवतेरुः। ताः प्रेक्ष्य च भयातौ तो त्रेसतुः। ततश्च रम्भाद्याः सुरस्त्रियो भक्तितस्तस्य मुनेर नाटयं विस्तारयामासुः । तं मुनि वन्दित्वा च स्वं स्वं स्थानं ययुः । स मुनिरपि वार्षिकी प्रतिमा पारयित्वा महीं विजहार ।।
सहस्रायुधोऽपि राज्यलक्ष्मी यथाकामं बुभुजे । एकदा च तत्र पुर्या पिहितास्रवं गणधरं समवसृतं विज्ञाय सहस्रायुधः समपेत्य भक्त्या बन्दित्वा धर्मदेशनां श्रवा तयण प्रaze:
देशनां श्रुत्वा तत्क्षणं प्रबुद्धः स्वे राज्ये पुत्रं शतबलि निधाय तद्गणधरपादान्ते प्रव्रज्यामादाय द्विविधशिक्षासम्पन्नो महीं विहरन् वज्रायुधस्य राजर्षेरमिलत् । ततः संयुक्तौ तौ पितापुत्रौ तपोध्यानपरौ पुरग्रामादिषु विहरन्तौ सुखेन प्राज्यं कालं गमयित्वेषत्प्रारभाराख्यं गिरिमारुह्य पादपोपगमाऽभिधमनशनं प्रपद्याऽऽक्षय तृतीये अवेयकेऽहमिन्द्रत्वमाप्य पञ्चविंशतिसागरोपमस्थिति तस्थतः।
XXXXXXXXXXXXXXXXXXXXXXXX
॥ ७७॥
JainEducation
For Persona 3 Private Use Only
library.org