SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चक्कवाट्टिस्स "पश्चम: श्रीशान्तिनाथचक्रवर्तिचरितम्" ॥ ७६ ॥ स्र यश्चाऽतिरुष्टोऽपि कनकशक्तेरपकत्तु मसमर्थों लज्जया भक्तपानादि परिहृत्य विपद्य च हिमचूलनामा देवोऽभवत् । कनकशक्तिश्च वसन्तसेना-कनकमालाभ्यां सह विद्याशक्त्या समीरवन्महीं भ्रमन् हिमवगिरि प्राप्तो विपुलमत्याख्यं चारणं मुनि दृष्ट्वा वन्दित्वा भार्याभ्यां सह तदीयदेशनां श्रुत्वा प्रबुद्धस्ते भार्ये गृहे मुक्त्वा प्रवव्राज । ते देव्यावपि च संविग्ने विमलमतेरार्यायाः पायें व्रतं जगृहतुः। कनकशक्तिश्च विहरन् सिद्धगिरि प्राप्तस्तत्र शिलायामेकरात्रिकया प्रतिमया स्थिरस्तस्थौ । तत्र च तथास्थितं तं दृष्ट्वा दुराशयो हिमचूलसुर उपसर्गान् कतु प्रचक्रमे । तश्च तथा कुर्वन्तं विद्याधरा न्यत्रासयन् । ततः प्रतिमा पारयित्वा विहरन् स रत्नसञ्चयां नगरी प्राप्तः सूरनिपाताख्ये वने एकरात्रिकी प्रतिमा चक्रे । ततश्च क्षपकश्रेणिमारूढस्य तस्याऽमलं केवलमुत्पन्नम् । तदा सुराः समुपेत्य तस्य केवलज्ञानमहिमानं चक्रः। हिमचूलश्च तद् दृष्टा भीतस्तं शरणं ययौ । वज्रायुधोऽपि च तस्य मुनेर्यथावन्महिमानं विधाय देशनां श्रुत्वा स्वपुरों ययौ। अथाऽन्यदा क्षेमङ्करप्रभुस्तत्र समवसृतः । तच्छु त्वा च सपरिच्छदो वज्रायुधस्तत्र गत्वा यथाविधि वन्दित्वा यथास्थानमुपविश्य धर्मदेशनामश्रौषीत् । देशनान्ते च नत्वा स चक्रयवदत्-"स्वामिन् ! संसराद् भीतोऽस्मि, ततः स्वे राज्ये सहस्रायुधं निवेश्य यावदागच्छामि, तावन्मम दीक्षां दातुं प्रतीक्षस्व' । ततो 'न प्रमादो विधातव्या इति स्वामिनोक्तः स निर्जा पुरीं गत्वा सहस्रायुधं राज्ये निवेश्य सहस्रायुधेन कृतनिष्क्रमणोत्सवः क्षेमङ्करजिनपार्श्वमेत्य राज्ञीनां नृपाणां च चतुःसहस्र या पुत्राणां सप्तशत्या च सह व्रतमाददे। विविधाऽभिग्रहपरः परीषहान् सहमानश्च XXXXXXXXXXXXXXXXXXXXXX ॥७६ ॥ Jain Educ a tional For Personal & Private Use Only Melibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy