________________
॥७५॥
तास्ते त्रयोऽपि क्षेमङ्करजिनान्तिकं गत्वा प्रव्रज्योग्रं तपस्तेपिरे । चक्रयक्तप्रकारेण च परमं पदं ययुः । वज्रायुधश्चक्री च सहस्रायुधेन सहेन्द्रो दिवमिव भुवं पालयामास ।
एकदा च सहस्रायुधपत्नी जयना निशि स्वप्ने भास्वरां कनकशक्ति ददर्श । तया ख्यातस्य च तस्य स्वप्नस्य "महाशक्तिस्तव पुत्रो भविष्यती"ति पतिः फलमुक्तवान् । तत्प्रभृति गर्भ दधाना सा पूर्णे समये तनयरत्नमजनिष्ट । पितरौ च तस्य दृष्टस्वप्नाऽनुसारेण समहोत्सवं कनकशक्तिरिति नाम चक्रतुः । स च क्रमाद् बाल्यमतीत्य प्राप्तयोवनः सुमन्दिरपुरे मेरुमालिनो मल्लागर्भजां रूपलावण्यशालिनी कनकमाला नाम तनयामुपयेमे । तस्याश्च कनकमालायाः सखों मशकासारपुरनृपस्याऽजितसेनस्य प्रियसेनाकुक्षिभवां वसन्तसेना स्वयम्बरा पित्रा प्रेषितां कनकशक्तियथाविधि परिणिन्ये । तदुद्वाहतश्च तस्या वसन्तसेनायाः पैतृष्वस्र यश्चुकोप । एकदा च कनकशक्तिरुद्याने कमप्येक नरमुत्पतन्तं निपतन्तं च वीक्ष्य कस्त्वमिति पप्रच्छ। ततः स नर उवाच-"अहं विद्याधरोऽस्मि । वैताढयशैलात्केनचिदर्थेनाध्यतो गच्छन्निहोद्याने समापतम् । अत्र चोद्यानरम्यतां पश्यन् क्षणं स्थित उत्पित्सुर्यावदाकाशगामिनी विद्यामस्मान्तावत्तस्या विद्याया एकं पदं विस्मृतम् । तेनेषद्वद्धपक्षः पक्षीवोत्पतामि निपतानि च। ततः कनकशक्तिरुवाच-"यद्यपरस्याऽग्रतस्तत्पठितुं युज्यते तहिं यावत्स्मृतं पठ' । ततस्तेन विद्याधरेण पादहीनायां तस्यां पठितायां पदाऽनुसारिबुद्धिनृ पस्तत्पादमाख्यत् । ततः पुनर्जातविद्याशक्तिः स विद्याधरः प्रमुदितो नृपाय विद्याः प्रदाय यथागतं ययौ। कनकशक्तिरपिता विद्या यथाविधि साधयित्वा महाविद्याधरोऽभवत् । वसन्तसेनायाः पैतृष्व
XEXXXXXXXXXXXXXXXXXXX****
॥७५॥
Jain Educati
o
nal
For Personal & Private Use Only
delibrary.org