________________
॥३१॥
एकदा च तस्यामेवाऽटव्यां कियद् दुरं गत्वाऽवस्थितो दिशो विलोकयामास । कारण्डवादिपक्षिशब्दः पङ्कजगन्धिना मरुता च किश्चित्सर इहास्तीत्यनुमानतो निश्चिकाय । स तदभिमुखं प्रयातो मधुरं सङ्गीतं शृण्वन्नग्रे गच्छन् विचित्रवस्त्रनेपथ्यानां रमणीनां मध्यवर्त्तिनं मित्रं सनत्कुमारं ददर्श । ततश्चाऽसौ मे प्रियसुहृदेव, माया वेत्यचिन्तयद् यावत्, तावद्वैतालिकेन पठ्यमानां प्रशस्ति श्रुत्वा सनत्कुमारस्य दृक्पथं गतो हर्षाश्रुधारया समं तत्पादपद्मयोः पतन् सनकुमारेणाऽभ्युत्थायोद्धृत्य परिषध्वजे। सनत्कुमारप्राप्तेश्च महेन्द्रसिंहस्य श्रमः क्वापि जगाम । ततः सनत्कुमारः स्वचक्षुषोहर्षाश्रु प्रमज्य महेन्द्रसिंहमुवाच-"कथमत्र समागतः १, एकाकी कथमासी १ मां कथमज्ञासीः १, कथं कालमक्षिपः१, मद्वियोगे पितृपादाः कथं प्राणानधारयन् ? पितृभ्यामिह दुर्गमे कथमेकाकी प्रेषितः ?" इत्थं कुमारेण पृष्टो
महेन्द्रसिंहः सर्व प्राग्वृत्तं यथातथमाचचक्षे। ततः सनत्कुमारस्तस्य महेन्द्रसिंहस्य विद्याधरीभिर्मजनभोजनादि कार__ यामास । तदनु विस्मितो महेन्द्रसिंहो विनयाद्रचिताजलिः सनत्कुमारं पप्रच्छ-"तदा तेन तुरङ्ग कियती भुवमप
हृतः १ तत्प्रभृति मद्वियोगे च त्वया कि प्राप्तम् ?, इयमृद्धिर्वा ते कुतः, यदि मयि न गोपनीयं तये तद्रहस्यमाख्यातुमर्हसि ।" ततः सनत्कुमारोऽस्मिन्नात्मकल्पे स्ववयस्ये न किमपि गोपनीयमिति विचिन्त्य स्ववामपावें निषण्णां स्वदयितामादिदेश-"विद्यया वेद्यवेदिनि । वकुलमतिके! प्रिये ! महेन्द्रसिंहाय तथ्यां मत्कथा कथय । मामधुना निद्रा बाधते" । इत्युक्त्वा सुषुप्सुः स रतिगृहं प्रविवेश।
ततो वकुलमतिरवोचत्-"तत्र दिने युष्माकं पश्यतामपि वाजिना हृतस्तव सखा महाटवीमेतां प्रवेशितो द्विती
EXXXXXXXXXXXXXXXXXX
Jain Educati
o
nal
For Personal & Private Use Only
lelibrary.org