________________
"चतुर्थः
चकवाट्टिस्स
- श्रीसन
कुमार
कहा"
॥३२॥
चक्रवर्ती
चरितम्"
XXXXXXXXXXXXXXXXXXXX
येह न्यपि वेगाद्गच्छन मध्याह्न क्षुत्पिपासात्तों जिह्वां कृष्ट्वाऽवस्थितः। ततस्तस्मात्खिन्नादश्वादार्यपुत्रोऽप्यवतीर्याऽश्वात्पर्याणादिकमुत्तार्य पिपासया पयोऽन्वेषयन्नस्यामटव्यामितस्ततः परिभ्रमनप्यपश्यन् सुकुमाराङ्गोऽध्वश्रान्तो दवदाहाद्व्याकुलो द्रुतं सप्तपर्णतरुमूलं गत्वोपाविशत् क्षोण्या पपात च । तदा च पुण्यवशात्तद्वनदेवता यक्षोऽमुं सर्वाङ्ग शीतलैजलैः सिषेच । लब्धसंज्ञ उत्थाय चाऽसौ तद्दत्तं जलं पीत्वा कस्त्वं कुतो वेदं जलमित्यपृच्छत् । स यक्षराट् च-“यक्षोऽहम्, त्वत्कृते मानसात्पयः समानीतमि" त्याचख्यौ। तत आर्यपुत्रोऽवोचत-"महान् सन्तापोऽङ्ग, स मानससरोमजनाद्विना नाऽपयास्पति" । "एष तवेच्छां पूरयामी" त्युक्त्वा च स यक्षोऽमुकदलीसम्पुटे क्षिप्त्वा मानससरोऽनयत । तत्र च यथाविधि स्नानेनाऽऽयपुत्रस्य श्रमो दूरीभूतः।
तत्र च तव सुहृदः प्राग्जन्मारिरसिताक्षो यक्षः कृतान्त इव हननाय समागच्छत् । एकं वृक्षं च समुन्मूल्य यष्टिलीलयाऽऽयपुत्राय प्राक्षिपच्च । तं च समापतन्तं द्रमं तव सखा हस्तेन निहत्याऽपातयत् । ततः स यक्षो बहलधुलीभिर्जगदन्धकारमयं चकार । तेन विकृताश्च भीपणाः पिशाचा आर्यपुत्रमधावन्त । आर्यपुत्रोऽपि च तैर्मनागप्यभीतो नागपाशैर्बद्धोऽपि तान् सर्वान् लीलया त्रोटयामास । ततो विलक्षो यक्षोऽमुं कराघातैरताडयत् । आर्यपुत्रोऽपि तं वज्रसारेण मुष्टिना जघान । ततो गरीयसा मुद्गरेण तेन यक्षेणाऽऽहत आर्यपुत्रश्चन्दनद्रुममुन्मूल्य तं यक्षं जघान । स भुवि पपात च । ततः शैलं लीलयोरिक्षप्य यक्षेणाऽऽहत आर्यपुत्र क्षणं निश्चेतनो जज्ञे । लब्धसंज्ञश्च तमद्रिं विध्याऽर्यपुत्रो बाहुभ्यां योद्धुं प्रववृते । तं च निहत्य दोर्दण्डेनाऽर्यपुत्रः कणशश्चक्रे । तथापि देवत्वात्स नाऽमृत । किन्तु विरसमा
KXXXXXXXXXXXX XXXXXXXXXXXX
।।३२॥
Jain Educatie national
For Personal & Private Use Only
Plelibrary.org