SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥ ३३॥ रट्य स यक्षो वायुवेगेन पलायिष्ट । रणकौतुकावलोकिन्यो विद्याधर्यादयस्त्वन्मित्रे पुष्पाणि ववृषुः। ततो धीरमानस आर्यपुत्रोऽपराह्व मानसादचालीत् । नन्दनादायाता रूपवती खेचरकन्यकां ददर्श च । ताभिश्वाऽपि हावभावमनोहरं त्वन्मित्रं ददृशे। ताश्चोपेत्य सद्भाव प्रकटयामासुः। आर्यपुत्रोऽपि तामुवाच-"यूयं कस्य महात्मनः पुन्यः, इदमरण्यं च केन हेतुना युष्माभिभूषितम् ? । ततस्ता अप्यूचुः-"वयं विद्याधरेन्द्रस्य भानुवेगस्याऽष्टौ कन्यकाः। मम पितुश्च नगरीतोऽनतिदर एवाऽस्ति । ता विश्रान्त्याऽलकुरु"। सविनयमुक्तस्ताभिश्च ते सखा वरचिन्ताभृतः स्वपितुरन्तिकमनायि | भानुवेगश्चाऽभ्युत्थानं कृत्वा स्वागतवचनमुच्चार्योवाच-"त्वं कन्यानामुचितो वरोऽसीति मया प्रायसे इमा अष्टावपि परिणय"। तेन चैव अभ्यर्थितस्तव सखा तदैव ता अष्टा अपि विधिपूर्वक पर्यणेषीत् । ताभिश्च समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणो निद्रितोऽसिताक्षणोत्क्षिप्याऽन्यत्र चिक्षिपे । निद्रान्ते च तव सखा स्वं सकङ्कणं भूमिष्ठमरण्यान्तरेकाकिनं पश्यन् किमिदमिति चिन्तयामास । पूर्ववच्चैकाक्यटव्यन्तरटन्नेकम_लिहं सप्तभूमिकं प्रासादं ददश। अदोऽपि कस्याऽपि मायाविनो मायाविलसितं किश्चित् चिन्तयंस्तं प्रासादमाससाद । तत्र च कस्याऽपि योषितः सकरुणं रुदितं श्रुत्वा दयावीर आर्यपुत्रस्तत्र प्रासादे सप्तमी भूमि प्राप्तः-सनत्कुमार ! जन्मान्तरेऽपि त्वमेव मम भर्ता भृया इति भूयो भूयो वदन्ती रूपलावयपुण्याङ्गीमधोमुखीमश्रुपूर्णेक्षणां कन्यकां ददर्श । स्वनामश्रवणाच्च केयमित्याशङ्कितः पुरोभूय तामाभाषिष्ट-“भद्रे ! सनत्कुमारः कः ?, कासि त्वम् , इह किमागता, किंवा ते व्यसनम् , ॥३३॥ For Personal & Private Use Only Jain Education intentional wwagainalibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy