________________
"श्री चक्क हिस्स कहा "
॥ ३० ॥
1
पर्याणवरुभ्यां तं प्रेरयत् । सोऽश्वश्च पृथिवीमस्पृशन्निव वेगेन प्रधावितः कुमारेण यथा यथा वल्गया चकृषे, तथा तथा विपरीतशिक्षोऽधिकमधावत । एवं सोऽश्वोऽश्वमूर्ती राक्षस इव सादिनां राजपुत्राणां धावतामपि क्षणाददृश्योऽभूत् । ततोऽश्वसेनोऽश्वसेनयाऽश्व नाऽऽकृष्टं सूनुं प्रत्यानेतुमन्वचालीत् । यावच्च जनोऽसावश्वो याति, एतानि तस्य पदानि, इमास्तस्य फेनलाला' इत्येवमाख्याति, तावत्कालरात्रिरिव दृशामन्धङ्करणी प्रचण्डा वात्योदभूत् । तदानीं रेणुभिर्दिशोऽच्छाद्यन्त, सैन्यानि स्तम्भितानीव पादमप्युद्धर्तुं नाऽलम् । गच्छतस्तस्य वाजिनश्वाशेषाण्यपि पदफेनादि चिह्नानि पांशुभिस्तिरोहितानि । ततश्च मूढोपायाः सर्वे सैनिकाः पर्याकुल्यभवन् । ततो महेन्द्र सिंहोऽश्वसेनं नत्वा व्यजिज्ञपत्- 'देव ! पश्य, देवस्येयं दुर्घटा घटना । अन्यथा कुमारः क्क, दूरदेशः स हयः क्व १ तत्राऽज्ञातशीले कुमारस्याऽधिरोहणं क्व तेन कुमाररस्याऽपहरणं क्व १, इयं वात्या च प्रचण्डा क्व ? तथापि दैवं जित्वा स्वामिसन्निभं स्वमित्रमन्विध्याऽऽनेष्यामि । प्रभो ! ममाल्पपरिवारस्य, काचिदेकाकिनोऽपि च कुमारस्याऽऽन्वेषणं सुकरम् । किन्तु प्रचुरसैन्य परिवारस्य यत्र कुत्रचिदसम्मातो देवस्य तन्न योग्यम्" । एवं भूयोभूयः सम्प्रार्थ्य तेन पादलग्नेन निवर्त्तितोsaसेन दुःखितो नगरं ययौ । महेन्द्रसिंहश्च स्वल्पबलवत्परिवारसमन्वितः सहसा सनत्कुमारमन्वेष्टुमतिदुर्गा महाटवीं प्रविवेश । विकटां तामटतस्तस्य खिन्नखिन्नानि सैन्यानि मन्त्रिमित्रादीनि च त्यक्तसङ्गानि बभ्रुवुः । एवं क्रमादेकाकी स धनुर्धरो निकुञ्जकन्दरादिषु भ्रमन् सनत्कुमारमन्वेषयन् वर्षातपशीतादिकं सहमानः क्रमशः षड्ॠतूनपि व्यतीयाय । एवं सनत्कुमारान्वेषणायाऽटवीमटतस्तस्यैको वत्सरो जगाम ।
I
Jain Educatiemational
For Personal & Private Use Only
******
"चतुर्थः
श्रीसन
त्कुमार
चक्रवर्ती
चरितम् "
॥ ३० ॥
elibrary.org