________________
*"पश्चमः
चक्कवट्टिस्सा कहा"
श्रीशान्तिनाथचक्रवर्तिचरितम्"
॥६४॥
XXXXXXXX XXXXXXXXXXXXX**:***
मुनिः प्रसन्नया वाचा धर्मदेशनां विदधे-"संसारे चतुरशीतियोनिलक्षान् भवान् भ्रान्त्वा दैवात्प्राणी मानुष्यं लभते । तत्राऽपि च सर्वधर्मेषु प्रधानः सर्वज्ञकथितो धर्मः सुदुर्लभः । तस्मात्तत्र धर्म एव सम्यक्त्वपूर्वकं यत्नः कर्त्तव्यः । येन संसारी संसारं लीलया तरति" । ततः श्रीदत्ता सुव्रतपादयोनत्वा सम्यक्त्वपूर्वकं सर्वज्ञोक्तं धर्म जग्राह । पौरलोकोऽपि सर्वो मुनि नत्वा श्रीदत्ता च स्वस्वगृहं ययौ । ततः सा कियन्तं कालं तं धर्म प्रत्यपालयत् । कर्मविपाकाच्च तस्या मनसि विकल्पः समुदभूत-यजिनधर्मस्य परमं फलं कीय॑ते, तत्फलं ममम भविष्यति न वा १ । तदनन्तरमेकदा सा सत्ययशसं मुनि वन्दितु प्रस्थिता सा गगने विमानस्थं विद्याधरयुगलं समीक्ष्य तद्रूपमोहिता निजगृहमागत्य तां विचिकित्सामनालोच्याऽप्रतिक्रम्यैव च व्यपद्यत ।
इतश्चाऽस्मिन् जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये वैताट्यगिरौ शिवमन्दिरनगरे कनकपूज्यनामनृपतेर्वायुवेगाख्यायां पत्न्यामहं कीर्तिधरनामा तनयोऽभूवम् । मम पत्नी चाऽनिलवेगाख्या रात्रावेकदा सुप्ता श्वेतहस्तिनं गर्जन्तं मेघ कुम्भं च स्वप्ने दृष्टवती। तदेव प्रबुद्धा च मुदिता तान् स्वप्नान मदने ख्यातवती । अहं च त्रिखण्डविज चक्रवत्त्यर्धवैभवस्ते तनयो भावीति तत्फलमाख्यातवान । पूर्णे च समये सा सर्वलक्षणसम्पन्नं सुतमसूत । गभस्थेऽस्मिन्मयाऽरयो विशेषतो दमिता इति तस्य दमितारिरिति नामाऽकार्षम् । स च क्रमेण वर्धमानः सर्वकलाकुशलो यौवनं प्रत्यपद्यत । एकदा च तत्र विहरन् श्रीशान्तिनाथो जिनः समवासार्षीत् । तं वन्दित्वोपविष्टोऽहं धर्मदेशनां श्रुत्वा सद्यो विरक्तो राज्ये दमितारिं निवेश्य तजिनपादमूले प्रवज्यां समादाय ग्रहणाऽऽसेवनरूपे शिक्षे गृहीत्वाऽत्र पर्वते वार्षिकी
KKKKKKXXXXXXXXX
*:XXXXXXX
॥६४॥
Jain Educat
onal
For Personal & Private Use Only
S
elibrary.org