SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ॥११॥ यूयं पुनः स्तब्धाः सर्वपाखण्डा दृषका निर्मर्यादा मां निन्दथ, अतो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुखं व्रजत । यो युष्माकं मध्ये कोऽपि नगरे भ्रमन् द्रक्ष्यते स मे वध्यो भविष्यति । सुव्रताचार्यरुक्तं राजन्नस्माकं राजवर्धापनाचारो नास्ति, तेन वयं त्वद्वर्धापनकृते नायाताः, न च वयं किंचिनिन्दामः, किं तु समभावास्तिष्ठामः । ततः स रुष्टः प्रतिभणति यदि श्रमणं सप्तदिनोपर्यहं द्रक्ष्यामि तमहमवश्यं मारयिष्यामि, नात्र सन्देहः। एतन्नमुचिवाक्यं श्रुत्वाचार्याः स्वस्थानमायाताः, सर्वेऽपि साधवः पृष्टाः, किमत्र कर्तव्यं ? तत एकेन साधुना भणितम् , यथा सदा सेविततपोविशेषो विष्णकुमारनामा महामुनिः साम्प्रतं मेरुपर्वतचूलास्थो वर्तते । स च महापद्मचक्रिणो भ्रातास्ति, ततस्तद्वचनादयमुपशमिष्यति । आचार्यरुक्तं तदाकारणार्थ यो विद्यालब्धिसंपन्नः स तत्र व्रजतु । __तत एकेन साधुनोक्तमहं मेरुचूला यावद्गगने गन्तुं शक्तोऽस्मि । पुनः प्रत्यागन्तुं न शक्तोऽस्मि । गुरुणा भणितं विष्णकुमार एव त्वामिहानेष्यति । तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः, क्षणमात्रेण मेरुचूलायां प्राप्तः । तमायन्तं दृष्ट्वा विष्णुकुमारेण चिन्तितं किंचिद्गुरुकं संघकार्यमुत्पन्नम् , यदयं मुनिवर्षाकालमध्येऽत्रायातः । ततः स मुनिर्विष्णकुमारं प्रणम्यागमनप्रयोजनं कथितवान् । विष्णकुमारस्तं मनिं गृहीत्वा स्तोकवेलयाऽऽकाशमार्गेण गजपुरे प्राप्तः, वन्दितास्ते गुरवः, गुर्वाज्ञया साधुसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः सर्वैः सामन्तादिभिर्वन्दितः, नमुचिस्तु तथैव सिंहासने तस्थिवान्, न मनाग विनयं चकार । विष्णुना धर्मकथनपूर्व नमुचेरेवं भणितम् , वर्षाकालं यावन्मुनयोऽत्र तिष्ठन्तु । नमुचिना भणितम् , किमत्र पुनः पुनवेचनप्रयासेन ? पञ्चदिवसान् यावन्मुन XXXXXXXXXXXXXXXXXXXXXXXXX ॥१११ Jain Educatolational For Personal & Private Use Only Relibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy