________________
"नवमम्
"श्री चक्कपट्टिस्सा
कहा"
XXXXXXXXXXX
महापन चक्रवतिचरितम्
॥११४||
※※※※※※※※※※※※※※※※※※
सहितः पद्मोत्तरराजा सुव्रतमूरिसमीपे प्रव्रजितः । ततो महापद्मो विख्यातशासनश्चक्रवर्ती जातः । स्वमात्रपरमातृकारितौ द्वावपि रथौ तथैव स्तः । महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः, तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः। तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रामाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि पद्मोत्तरमुनिरपि पालितनिष्कलङ्कश्रामण्यः शुद्धाध्यवसायेन कर्मजालं क्षपयित्वा समुत्पन्न केवलज्ञानः सम्प्राप्तः सिद्धिमिति । विष्णुकुमारमुनेरप्युग्रतपोविहारनिरतस्य वर्धमानज्ञानदर्शनचारित्रपरिणामस्याकाशगमनादिवक्रियलन्धय उत्पन्नाः । स कदाचिन्मेरुवत्तंगदेहो गगने व्रजति, कदाचिन्मदनवद्रपवान् भवति । एवं नानाविधलब्धिपात्रः स सञ्जातः । इतश्चः ते सुव्रताचार्या बहुशिष्यपरिवृता वर्षारात्रस्थित्यर्थ हस्तिनागपुरोद्याने समायाताः, ज्ञाताश्च तेन विरूद्धेन नमुचिना, अवसरं ज्ञात्वा तेन राज्ञे विज्ञप्तम् । यथा पूर्वप्रतिपन्न मम वरं देहि १ चक्रिणोक्तं यथेष्टं मार्गय १ नमुचिना भणितं राजन्नहं वेदभणितेन विधिना यज्ञं कर्तमिच्छामि, अतो राज्यं मे देहि । चक्रिणा नमुचिः स्वराज्येऽभिषिक्तः, स्वयं चान्तःपुरे प्रविश्य स्थितः। नमुचिर्यज्ञापाटकमागम्य यागनिमित्तं दीक्षितो बभूव । राज्येऽभिषिक्तस्य तस्य वर्धापनार्थ जैनयतीन् वर्जयित्वा सर्वेऽपि लिङ्गिनो लोकाश्च समायाताः। नमुचिना सर्वलोकसमक्षमुक्तम् , सर्वेऽपि लोका मम वर्धापनार्थ समायाताः, जैनयतयः केऽपि नायाताः। एवं बलं प्रकाश्य सुव्रताचार्या आकारिता आगताः। नमुचिना भणिता-भो जैनाचार्याः ! यो यदा ब्राह्मणो वा क्षत्रियो वा राज्यं प्राप्नोति, स तदा पाखण्डिभिरागत्य दृष्टव्यः। इयं लोकस्थितिः, यतो राजरक्षितानि तपोधनानि भवन्ति ।
KXXXXXX
॥११४॥
XXXXX
Jain Educa
t
ional
For Personal & Private Use Only
Malelibrary.org