________________
"श्री
"नवमम्
चकवादिस
कहा" ॥११६॥
महापद्म चक्रवतिचरितम्"
EXXXXXXXXXXXXXXXXXXXXXXX
योऽत्र तिष्ठन्तु, विष्णुना भणितं तवोद्याने मुनयस्तिष्ठन्तु । ततः सञ्जातामर्षेण नमुचिनैवं भणितम्-सर्वपाखण्डवामै-- भवद्भिर्न मद्राज्ये स्थेयम् , मद्राज्यं त्वरितं त्यजन्तु ? यदि जीवितेन कार्यम् । ततः समुत्पन्नकोपानलेन विष्णुना भणितम्तथापि त्रयाणां पादानां स्थानं देहि । ततो भणितं नसुचिना, दत्तं त्रिपदीस्थानम्, परं यं त्रिपद्या बहि क्ष्यामि तस्य शिरश्छेदं करिष्यामि । ततः स विष्णुकुमारः कृतनानाविधरूपो वृद्धि गच्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः । क्रमाभ्यां दर्दरं कुर्वन् ग्रामाकरनगरसागराकीणां भूमिमकम्पयत , शिखराणि पातयति स्म । त्रिभुवने क्षोभं कुर्वन् स मुनि शक्रेण ज्ञातः तस्य कोपोपशान्तये शक्रेण गायनदेव्यः प्रेषिताः । ताश्चेवं गायन्तिस्म___"सपर संतावो धम्मवणदावओ कुग्गइगमणहेउ कोवो ता ओवसमं करेसु भयवंति ॥" ( स्वपरसन्तापको धर्मवनदावकः कुगतिगमनहेतुः क्रोधस्तस्मात् उपशमं करोतु भगवन् ! इति ।)
एवमादीनि गीतानि ता वारंवारं श्रावयन्ति स्म । स मुनिर्नमुचिं सिंहासनात्पृथिव्यां पातितवान् । दत्तपूर्वापरसमुद्रपादः स सर्वजनं भापयति स्म । ज्ञातवृर्त्तान्तो महापद्मश्चक्री तत्रायातः, तेन समस्तसंघेन सुरासुरैश्च शान्तिनिमित्तं विविधोपचारैः स उपशामितः । तत्प्रभृति विष्णुकुमारस्त्रिविक्रम इति ख्यातः। उपशान्तकोपः स मुनिरालोचितः प्रतिक्रान्तः शुद्धश्च । यत उक्तं
EX:XXXXXXXXXXXXXXXXXXXXXX
X॥११६॥
Jain Education
ational
For Personal & Private Use Only
wwwerelibrary.org