________________
"श्री
"नवमम्
चकवाट्टिस्स
महापा चक्रवर्तिचरितम्"
॥११॥
KXXXXXXXXXXXXXXXXXXXXXXX
धिपतिरिति महापद्मदेशं विनाश्य कोट्टे प्रविशति । ततो रुष्टेन महापद्मन नमुचिमंत्री पृष्टः, सिहबलराजग्रहणे किञ्चिदुपायं जानासि १ नमुचिनोक्तं सुष्टु जानामि । ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपायेन च दुर्ग भक्त्वासिंहवलो बद्ध आनीतश्च महापान्तिके । महापद्मेनोक्तं नमुचे ! यत्तवेष्टं तन्मार्गय ? नमुचिनोक्तं सांप्रतं वरः कोशेऽस्तु, अवसरे मार्गयिष्यामि । एवं यौवराज्यं पालयतो महापद्मस्य कियान कालो गतः । अन्यदा महापद्ममात्रा ज्वालादेव्या जिनरथः कारितः, अपरमात्रा च मिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्न्या ब्रह्मरथः कारितो भणितश्च पद्मोतरो नाम राजा, यथेष ब्रह्मरथः प्रथम नगरमध्ये परिभ्रमतु | जिनरथश्च पश्चात्परिभ्रमतु । इदं वचः श्रुत्वा ज्वाला देव्या प्रतिज्ञा कृता, यदि जिनरथः प्रथमं न भ्रमिष्यति तदाऽपरजन्मनि ममाहारः। ततो राज्ञा द्वावपि रथौ निरुद्धौ । महापद्मः स्वजनन्याः परमामधति दृष्टा नगरान्निर्गतः केनापि न ज्ञातः। परदेशे गच्छन् महाटव्यां प्रविष्टः, तत्र च परिभ्रमंस्तापसालये गतः । तापसैदत्तसन्मानस्तत्र तिष्ठति ।
इतश्च चम्पायां नगर्या जनमेजयो राजा परिवसति । स च कालनरेन्द्रेण प्रतिरुद्धः, ततो महान् सङ्ग्रामो बभूव । जनमेजयो नष्टः, तस्यान्तः पुरमपीतस्ततो नष्टम् जनमेजयस्य राज्ञो नागवतीनाम भार्या, सा मदनावलीपुच्या समं नष्टा, आगता तं तापसाश्रमम् , समाश्वासिता कुलपतिना तत्रैव स्थिता । कुमारमदनावल्योः परस्परमनुरागो ज्ञातः । कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किन स्मरसि नैमित्तिकवचनं १ यथा चक्रवर्तिनस्त्वं प्रथमपत्नी भविष्यसि । ततः कथं यत्र तत्रानरागं करोषि ! कुलपतिनापि कुमारस्य विसर्जनार्थमु
*:XXXXXXXXXXXXXXXXXXXXXXXX
॥११०॥
Jain Educa
Ternational
For Personal & Private Use Only
Malinelibrary.org