________________
॥१०६॥
****
****
श्रीनवम चक्रवर्ति महापद्म चरितम्
इहैव जम्बूद्वीपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरं नाम नगरम् । तत्र श्री ऋषभवंशप्रभूतः पद्मोत्तरो नाम राजा । तस्य ज्वालानामहादेवी । तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रः । द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा । द्वापि वृद्धिं गतौ, महापद्मो युवराजा कृतः । इतवोज्जयिन्यां नगर्यो श्रीधर्मनामराजा, तस्य नमुचिनामा मन्त्री । अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुत्रतो नाम सूरिः समवसृतः । तद्द्वन्दनार्थ लोकः स्वविभूत्या निर्गतः, प्रासादोपरि स्थितेन राज्ञा दृष्टः । पृष्टाव सेवकाः, अकालयात्रया क्वायं लोको गच्छति १ ततो नमुचिमन्त्रिणा भणितम् - देव अत्रोद्याने श्रमणाः समागताः, तेषां यो भक्तो लोकः स तद्द्वन्दनार्थं गच्छति । राज्ञा भणितम्वयमपि यास्यामः । नमुचिनोक्तं तर्हि त्वया तत्र मध्यस्थेन भाव्यम्, यथाहं वादं कृत्वा तान्निरुत्तरीकरोमि । राजा नमुचिसहितस्तत्र गतः । नमुचिना भणितम् - भो श्रमणाः ! यदि यूयं जानीथ धर्मतत्त्वं तर्हि वदथ । सर्वेऽपि मुनयः क्षुद्रोऽयमिति कृत्वा मौनेन स्थिताः । ततो नमुचिभृशं रुष्टः सूरिं प्रत्येवं भणित वान् एष बयल्लः (बलदः) किं जानाति १ ततः सूरिभिर्भणितं, भणामः किमपि यदिते मुखं खर्जति । इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितम्, भगवन्नहमेवैनं निराकरिष्यामि । इत्युक्त्वा क्षुल्लकेन स वादे निरुत्तरीकृतः, साधूनामुपरि द्वेषं गतः । रात्रौ च चरवृत्यैकाक्येव मुनिवधार्थमागतो देवतया स्तम्भितः । प्रभाते तदाश्रयं दृष्ट्टा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनापुरम्, महापद्मयुवराजस्य मंत्री जातः । इतश्च पर्वतवासी सिंहबली नाम राजा, स च कोट्टा
1
Jain Educatenational
For Personal & Private Use Only
॥१०६॥
nelibrary.org