________________
"अष्टमम्
चक्कवट्टिस
कहा"
सुभूम चक्रवर्ति
॥१०॥
चरितम्"
XXXXXXXXXXXXXXXX
र्पिता, स्वयं च सुभूमस्य सेवको भूत्वा तिष्ठति. एकवारं सुभूमेन स्वमातुः पृष्ठं, भोमातः कथय ? भूमिः किमेतावत्येवास्ति एतत्पुत्रवाक्यं श्रुत्वाऽश्रुधाराविललोचना सा गद्गदस्वरं तारा राज्ञी सर्वमपि पूर्वस्वरूपं कथयामास. भो पुत्र तब पितरं पितामहं च हत्वा, सर्वक्षत्रियाणां विनाशं कृत्वा आत्मीयं राज्यं परशुरामो भुक्ते. तद्भयेन नष्टौ तापसशरणमाश्रित्यस्थिनौ भूमिगृहवर्तिनी. स्वमातृमुखादेतदाकण्य सरोषः सुभूमो भूमिगहानिर्गतः, मेघनादसहितो गजपुरपरिसरे दानशालायामागतः, तावत्तदंष्ट्रास्थालं सुभूमदृष्टौ पतितं, औरेयीजाता. सुभूमो भक्षितुं लग्नः, तावत्तत्परशुरामेण ज्ञातं, सन्नद्धो भूत्वा ज्वलदंगारं परशुमादाय म बहिरागतः, सुभूमं दृष्टा तत्पुण्यप्राग्भारतो निस्तेजः परशुरामायुधं जातं, पश्चाद्भोजनानंतरमुत्थितेन सुभूमेन स्थालं परशुरामोपरि क्षिप्तं, तत्स्थालं च सहस्रदेवताधिष्ठितं चक्रं जातं तेन च चक्रेण परशुरामस्यशिरश्छिन्नं तदा तस्य चक्रवर्तिपदोदयो जातः, जयजयशब्दो जातः, देवैः पुष्पवृष्टिः कृता, क्षत्रियमारणवैरं स्मृत्वा तेनैकविंशतिवारान निर्ब्राह्मणा भूमिनिर्मिता. चक्रबलेन पटखंडानि निर्जित्य लोभाभिभूतः स परतो घातकीखंडस्थितभरतक्षेत्रसाधनाथं चलितः, तत्राष्टचत्वारिंशत्क्रोशविस्तृतचर्मरत्नोपरि स्वकटकं स्थापयित्वा लवणसमुद्रांतर्गच्छन् समकालं सहस्रसंख्यैरपि देवैमुक्तचर्मरत्नो दलसहितो जले निपत्य मृतः, पापकर्मयोगात्सप्तम्यां च गतः ॥ इति सुभूमचक्रिणः संवन्धः॥
XXXXXXXXXX
॥१०८॥
Jain Educati
o nal
For Personal & Private Use Only
wwwhigalmelibrary.org