________________
188x
EXXXXXXXXXXXXXXXXXXXXXXXX
तो सायं स्मरमन्दिरं गत्वा स्मरपृष्ठतस्तस्थतुः। साऽपि च केसरा स्मरणमात्रेण प्रेयःसमागमं नाम साध्यमन्त्रं स्मरन्ती तत्राऽऽययौ । याप्ययानादुत्तीर्य च प्रियङ्कराकरात्पूजासामग्रीमुपादायकाकिनी स्मरमन्दिरं प्रविश्य निजपाणिना तवारं पिधाय भृतले पत्रपुष्पादि निवेद्य काममुद्दिश्याब्रवीत-"देव ! त्वं सर्वेषां चित्ते भवसि, तेन सर्वेषां भावं जानासि । तत्किमनभीष्टेन पत्या मां वलानियोजयसि, विना वसन्तदेवं मे मनोऽन्यत्र न रमते । अन्यः पति मम मरणायैव । तजन्मान्तरेऽपि वसन्तदेवो मम भर्ता भूयात् । सुचिरं नमस्कृतोऽसि, अयं चाऽन्तिमो नमस्कारो मम।" एवमुक्त्वा सा तोरणे यावदात्मानमुद्रवन्ध, तावद्वसन्तो धावित्वा पाशग्रथिममोचयत् । कुतोऽयमिति साश्चर्या सब्रीडा सभया च सा वसन्तदेवमृचे-"असावहं तव प्रियो वसन्तदेवोऽस्मि, यं कामात्परलोकेऽपि पति याचसे। निष्कारणमित्रस्याऽमुष्य बुद्धयाऽत्र त्वां जिहीर्ष गुप्तं प्रविष्टोऽस्मि । तत्स्वं नेपथ्यमर्पयस्व, येन त्वद्वेषधरोऽसौ परिजनं मोहयंस्त्वद्वेश्म गच्छति, अस्मिश्च किय गते आवामभिप्रेतं देशान्तरं यास्यावः" । तेनेत्थमुक्ता सा निजनेपथ्यं कामपालायाऽऽर्पयत् । कामपालश्च केसरावेषं विधाय मन्दिरानिर्गत्य प्रियङ्करामवलम्ब्य याप्ययानमारुह्य परिजनरलक्षितः पश्चनन्दिगृहं ययौ । तथा प्रियङ्करया यानादवतार्य वधूगृहमानाय्य स्वर्णवेत्रासने उपावेश्यत । तथा "केसरे ! प्रियसमागमं मन्त्रं स्मरन्ती तिष्ठे" त्युदित्वा सा प्रियङ्करा गेहान्निर्जगाम । सोऽपि च कामपालस्तथाऽतिष्ठत् । केसरामातुलसुता शङ्खपुरवास्तव्या मदिरा चाऽपि जन्ययात्रानिमन्त्रिता तत्राऽऽगता तस्य पुरत उपविश्य किञ्चिनिःश्वस्याऽब्रवीत् "केसरे ! किं सखेदाऽसि ?, दैवाऽधीना मनोरथसिद्धिः। शङ्खपुरे स्थिताऽपि वसन्तदेवेन सह ते सङ्गमोऽभीष्ट इत्य
RE
Jan Educat
For Persona & Private Use Only
orary.org