________________
X“पश्चमः
।
चक्कवट्टिस्सा
श्रीशान्ति
कहा"
नाथ
॥१०॥
चक्रवतिचरितम्"
XXXXXXXXXXXXXXXXXXXXXXX
श्रौषम् । अहमपि प्रियविरहवेदना जानामि, तेन त्वां समाश्वासयितं वच्मि । दैवं य
दर्ता जानामि. तेन त्वां समाश्वासयितं वच्मि । देवं यथा प्रतिकलं करोति तथाऽनुकूलमपि करिष्यति । त्वं तु धन्याऽसि, यस्याः प्रेयसा समं दर्शनाऽऽलापादीनि मुहुर्मुहुरभूवन् । मम तु दारुणो वृत्तान्तः श्रृयताम् । शङ्खपालोत्सवे गताऽहमशोकतरोस्तले कामाकृतियुवानं दृष्ट्वा सखीहस्तेन तस्मै ताम्बूलं प्रैषयम् । तेन च मत्तगजाद्रक्षिताऽस्मि । पुनश्च गजभयात्रस्ताऽऽहं ससखीजना भूयोऽपि तमन्वेषयन्ती नाऽपश्यम् । तदा प्रभृति निर्विण्णा कथञ्चिज्जीवामि । किन्वद्य तं स्वप्नेऽद्राक्षम् । दैवप्रसादेन स प्रत्यक्षोऽपि भविष्यति । तद् दुःखं लघूकत्त तद्रहस्यं कथयामि । तत्खेदेनाऽलम् । देवेऽनुकूले सति प्रियसमागमो भविष्यति, धैर्य धेहि" । ततः कामपालो नीरङ्गीमपसार्याऽवोचत्-"त्वया यक्षोत्सवे दृष्टपूर्व एष ते प्रियोऽस्मि, दैवाऽनुकूल्यादधुनैवाऽऽत्रयोरिव वसन्तदेवकेसरयोरपि सङ्गमोऽभूत् । सम्प्रत्यालापेनाऽलम् । भयं त्यज, किश्चिनिर्गमनद्वारं दर्शय" । एवमुक्त्वा स गृहोद्याने पश्चिमद्वारमार्गेण मदिरादर्शितेन मदिरया समं निरगात् । पूर्वमस्मिन् पुरे आयातयो वसन्तदेवकेसरयोः सप्रियः कामपालः संयुयुजे । राजन् ! तौ पूर्वस्नेहेनाऽद्भुतपञ्चवस्तुढौकनं ते विदधाते, तज्जानीहि । तदमीभिरिष्टैस्तद्भोक्तुमीशिषे । इयकालं चाऽमूनभीष्टानजाननाऽभुक्त्था" । एवं प्रभोवचः श्रुत्वा नृपस्य तेषां च तत्क्षणं जातिस्मरणमुत्पेदे। ततः कुरुचन्द्रो नृपो भगवन्तं नत्वा स्नेहात्सोदरानिव तानि त । देवा अपि प्रभं नत्वा निजनिजं स्थानं ययुः। भगवांश्चाऽपि ततः स्थानादन्यत्र विजहार।
तदानीं च भगवतः परिवारे-श्रमणानां द्वापष्टिः सहस्राणि, साध्वीनामेकषष्टिः सहस्राः षट् शतानि च, चतु
KXEXXXXXXXXXXXXXXXXXX
॥१०॥
Jain Educa
l ernational
For Personal & Private Use Only
D
inelibrary.org