________________
॥१०॥
KXXXXXXXXXXXXXXXXXXXXXXXX
देशपूर्वभृतामष्टौ शतानि, अवधिज्ञानिनां सहस्रत्रितयम् , मनःपर्ययिणां चत्वारि सहस्राणि, केवलिना त्रिचत्वारिंशच्छतानि, जातवैक्रियलब्धीनां षट्सहस्राणि, वादलब्धिमतां सचतुःशते द्वे सहस्र, श्रावकाणामुभे लक्षे नवतिः सहस्राणि च, श्राविकाणां त्रिलक्षी त्रिनवतिसहस्री च केवलादारम्यैकाब्दोनपश्चविंशतिवर्षसहस्राणि विहरमाणस्याऽभूवन ।। ____ अथ निर्वाणकालं ज्ञात्वा सम्मेताद्रिमुपेत्य मुनीनां नवभिः शतैः सार्धमनशनं प्रपद्य मासान्ते ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे चन्द्रे तै मुनिभिः समं श्रीशान्तिप्रभुर्मोक्षं जगाम । तदेवं प्रभोः कौमारे मण्डलिकत्वे चक्रित्वे व्रते च प्रत्येकं लक्षचतुर्थाशमिति वर्षाणां लक्षमायुः । श्रीधर्मनाथनिर्वाणाच्च पादोनपल्यन्यूनेषु त्रिषु सागरोपमेष्वतीतेषु श्रीशा. न्तिस्वामिनि तिरभूत् । सुरैश्चाऽऽगत्य श्रीशान्तिजिनस्य मोक्षमहिमानं चक्रे । चक्रायुधो गणधरश्चापि कालेन केवलमाप्य सुचिरं महीं विहृत्य कोटिशिलाख्ये तीर्थेऽनशनं प्रपद्य प्रभूतै मुनिभिः समं शिवमगात् ॥ ५॥
सप्तदशमजिन एवं षष्ठम चक्रवर्ति कुन्युनाथ चरितम् हस्तिनागपुरे मरराज्ञः श्रीदेवी भार्या । तस्या कुक्षौ भगवान् पुत्रत्वेनोत्पन्नः जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः कुस्थो दृष्टः । गर्भस्थे च भगवति पित्रा शत्रवः कुन्थुवद् दृष्ट्वा इति कुन्थुनाम कृतम् । पित्रा प्राप्तयौवनश्चायं विवाहितो राजकुमारिकाभिः। काले च भगवन्तं राज्ये व्यवस्थाप्य सूरराजा स्वयं दीक्षा जग्राह । भगवांश्चोत्पन्नचक्ररत्नप्रसाधितभरतश्चक्रवर्तिभोगान् बुभुजे। तीर्थप्रवर्त्तमानसमये च निष्क्राम्य षोडश वर्षाणि चोग्र
KXXXXXXXXXXXXXXXXXXXXX
2॥१०॥
Jain Educat
i onal
For Personal & Private Use Only
Titlelibrary.org