________________
"सप्तमम् अरनाथ
चक्रवर्ति
चरितम"
विहारेण विहृत्य केवलज्ञानभाग जातः । देवाश्च समवसरणमकार्षः । प्रजिताः केवलपर्यायेण घना लोकाः। घनकालं "श्री
विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत् । तस्य भगवतः कुमारत्वे त्रयोविंशतिवषसहस्राणि, माण्डलिकत्वे च त्रयोचक्कवट्टिस्स
विंशतिवर्षसहस्राणि चक्रित्वे त्रयोविंशतिवर्षसहस्राणि, श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि च सप्तशतानि
वर्षाण्यभवन् । सर्वायुर्द्विनवतिवर्षसहस्राणि साधेसप्तशतानि चास्य बभूव । इति श्रीकुन्थुनाथदृष्टान्तः ॥६॥ ॥१०२॥
श्री अरनाथ सप्तम चक्रवर्ति चरितम् । प्राग्विदेहविभूषणे मङ्गलावतीविजये रत्नसंचया पुर्यस्ति । तत्र महीपालनाम भूपालोऽस्ति । प्राज्यं राज्यं भुङ्क्ते । अन्यदा गुरुमुखाद्धर्म श्रुत्वा वैराग्यमागतः स तृणमिव राज्यं त्यक्त्वा दीक्षा ललौ । गुर्वन्तिके एकादशाङ्गा* न्यधीत्य गीतार्थो बभूव । बहुवत्सरकोटीः स संयममाराध्य विशुद्धविंशतिस्थानकैरहन्नामकर्म बबन्ध । ततो मृत्वा * सर्वार्थसिद्धविमाने देवो बभूव । ततश्च्युत्वेह भरतक्षेत्रे हस्तिनापुरे सुदर्शननामा नृपो बभूव । तस्य राज्ञी देवीनाम्नी
बभूव । तस्याः कुक्षौ सोऽवततार । तदानीं रेवतीनक्षत्रं बभूव, तया चतुर्दश स्वप्ना दृष्टाः। ततः पूर्णेषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव । जन्मोत्सवस्तदा षट्पञ्चाशदिक्कुमारिकाभिश्चतुःषष्टिसुरेन्द्रनिर्मितः। ततः सुदर्शनराजापि स्वपुत्रस्य जन्मोत्सव विशेषाच्चकार । अस्मिन् गर्भवते मात्रा प्रौढरत्नमयोऽरः स्वप्ने दृष्टः। ततः पित्रास्यार इति नाम कृतम् । देवपरिवृतः स वयसा गुणैश्च वर्धते स्म । एकविंशतिसहस्रवर्षेषु गतेष्वरकुमारस्य पित्रा राज्यं दत्तम् ।
XXXXXXXX
॥१०॥
Jain Educati
o
n
For Persons & Private Use Only