SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॥१०३॥ XXXXXXXXXXX एकविंशतिवर्षसहस्राणि यावद्राज्यं भुक्तवतस्तस्य शास्त्रकोशे चक्ररत्नं समुत्पन्नम् । ततो भरतं साध्यैकविंशतिसहस्रवर्षाणि यावच्चक्रवर्तित्वं बुभुजे। ततः स्वामी स्वयंबुद्धोऽपि लोकान्तिकदेवबोधितो वार्षिकं दानं दत्वा चतुःषष्टिसुरेन्द्रसेवितो वैजयंत्याख्यां शिविकामारूढः सहस्राम्रवने सहस्रराजभिः समं प्रव्रजितः। ततश्चतुर्ज्ञान्यसौ त्रीणि वर्षाणि छामस्थ्ये | विहृत्य पुनः सहस्राम्रवने प्राप्तः । तत्र शुक्लध्यानेन ध्वस्तपापकर्मारः केवलज्ञानं प्राप । ततः सुरैः समवसरणे कृते स्वामी योजनगामिना शब्देन देशनां चकार। तद्देशनां श्रुत्वा केऽपि सुश्रावका जाताः, केऽपि च प्रव्रजिताः । तदानीं कुम्भभूपः प्रव्रज्य प्रथमो गणधरो जातः । अरनाथस्य षष्टिसहस्राः साधवो जाताः। साध्व्यः स्वामिनस्तावत्प्रमाणा एव जाता। श्रावकाश्चतुरशीतिसहस्राधिकलक्षमाना बभूवः । श्राविकाश्चतुरशीतिसहस्राधिकलक्षत्रयमाना बभूवुः । सर्वायुः चतुरशीतिसहस्रवर्षाणि भुक्त्वा सम्मेतशैलशिखरे मासिकानशनेन भगवानिवृत्तः। देवनिर्वाणोत्सवो भृशं कृतः । इत्यरचक्रवर्तिदृष्टान्तः ॥ ६॥ अष्टम चक्रवर्ति सुभूम चरितम् । ___तयोर्लिख्यते-सुधर्माभिधाने देवलोके द्वौ मित्रदेवौ, एको नाम्ना विश्वानरो द्वितीयो धन्वंतरिश्व. पूर्वो जैनो द्वितीयश्च तापसभक्तः, तयोः परस्परं धर्मवातां कुर्वतोः स्वस्वधर्मव्याख्याने क्रियमाणे धर्मपरीक्षार्थ तौ मृत्युलोकमागतो. तदवसरे मिथिलायाः स्वामी पद्मरथो राजा राज्यं विहाय श्रीवासुपूज्यमुनिचरणांतिके चारित्रं गृहीतुं गच्छति. तं नविनभावचारित्रिणं विलोक्य जैनदेवो बभाषे, प्रथमत एतस्य परीक्षा क्रियते, पश्चात्त्वदीयतापसानां परीक्षा EXIXXXXXXXXXXXXXXXXXXXXXXXI ॥१०३। Jain Educatio n al For Personal & Private Use Only Sarary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy