________________
दृष्वोपेत्य नत्वा देशनां श्रुत्वा पुनः प्रणम्योचतुः-अस्मदर्थ किश्चित्तपः समादिश” । ततो महामुनिः सर्वगुप्तो योग्यताऽनुसारेण द्वात्रिंशत्कल्याणकाख्यं तपस्तयोदिदेश । तौ च तथेति प्रतिपद्य गृहं गतौ त्रिरात्रद्वयद्वात्रिंशञ्चतुर्थात्मकं तत्तपो विधाय पारणसमये च धृतिधरं मुनि भक्तोदकादिना भक्त्या प्रत्यलाभयताम् । अन्यदा च विहारक्रमात्तत्राऽऽगतस्य सर्वगुप्तमुनेर्यथाविधि देशनां श्रुत्वा परिव्रज्यामाददाते । तत्र राज्यगुप्त आचामाम्लवधमानतपो विधायाऽन्ते चाऽनशनं प्रपद्य दशसागरोपमजीवितो ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽयं विद्युद्रथनृपात्मजः सिंहस्थो जज्ञे । शतिका चाऽपि विविधं तपो विधाय ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽस्य पत्न्यभूत् । अयं च सिंहरथ इतः स्वनगरं गत्वा पुत्र राज्ये निवेश्य मत्पितुर्दीक्षामादाय तपोध्यानादिभिः क्षीणकर्मोत्पन्न केवलज्ञानः सिद्धिं ब्रजिष्यति ।" ततस्तद्ववचनं श्रुत्वा मेघरथं प्रणम्य स्वपुरं गत्वा पुत्र राज्ये निवेश्य सिंहरथो धनरथजिनान्तिके दीक्षामादाय तपोऽनुष्ठाय सिद्धिमियाय । नृपो मेघरथोऽपि च देवरमणोद्यानात्स्वपुरीं पुण्डरीकिणीं प्राविशत् ।
अथैकदा पौषधशालायां पौषधमादाय धर्ममाख्यातुमुपक्रान्तस्य मेघरथस्योत्सङ्गे भीत एकः पारापतः पपात् । मनुष्यभाषयाऽभयं याचमानं च तं मा भैषीरिति नपोऽभाषिष्ट । तं पारापतमनुधावमानः श्येनश्च ममेदं भक्ष्यमाशु मुञ्चेतिवदन्नागात् । ततो मेघरथ ऊचे-"नाऽमुमर्पयिष्यामि, क्षत्रियो हि शरणागतं नाऽर्पयति । किञ्च परप्राणाऽपहारेण स्वप्राणपरिपोषणं न कस्याऽपि युज्यते । तवाऽनेन भक्षितेन क्षणमात्रं तृप्तिः । अस्य तु सर्वप्राणाऽपहार एव भवेत् । परहिंसायां च परत्र भूरिदुःखम् । पञ्चेन्द्रियवधात्तन्मांसभक्षणाच्च जन्तवो नरके दुःसहाँ व्यथां प्राप्नुवन्ति । ततः
KEXXXXXXXXXXXXXXXXXXXXXXX
॥८५॥
Jain Educati
o
nal
For Personal & Private Use Only
M
elibrary.org