________________
"पश्चम: श्रीशान्ति
चक्कपट्टिस्स कहा"
नाथ
॥
४॥
|चक्रवर्तिचरितम्"
एकदा च देवरमणनाम्न्युद्याने रिम्सया गतो मेघरथोऽशोकतरोस्तले प्रियमित्रया साधं सङ्गीतं कारयितुमारेभे । अत्राऽन्तरे च तस्य नृपस्य पुरः सङ्गीतकचिकीर्षया सहस्रशो भृताः प्रादुरासन् । विचित्राऽऽकारभूषणनेपथ्याश्च ते ताण्डवं प्रारभन्त । तेषु ताण्डवं विदधत्सु च गगने विमानमेकं प्रादुरासीत् । तत्र च रत्या काम इवैकया युवत्या युतः पुमानेको ददृशे । कोऽयं केयं कुतो हेतोश्चेत आगच्छत इति प्रियमित्रया पृष्टश्च मेघरथ उवाच-"जम्बूद्वीपे भरते वैताट्यस्योत्तरशेण्यामलकायां पुरि विद्यद्रथो नाम विद्याधरेश्वर आसीत् । तस्य च मानसवेगायां पत्न्यां सिंहरथस्वप्नसूचनाञ्जातः सिंहरथः पुत्रश्चन्द्रो रोहिणीमिव कुलीनां वेगवती नाम कन्यां परिणीतवान् । विद्यद्रथश्च तं निजे राज्ये निधाय संसारं विद्युच्चपलस्वभावं ज्ञात्वा वैराग्यमापन्नो दीक्षा गहीत्वा संयमादिभिः कर्मक्षयं कृत्वा शिवमगात् । सिंहरथश्च विद्याधरचक्री चाऽर्हद्दर्शनेच्छयैकदा घातकीखण्डे पश्चिमविदेहेषु सीतानद्या उत्तरतटे सूत्राख्ये विजये खगपुरे पत्न्या समं गत्वाऽमितवाहनं दृष्ट्वा नत्वा देशनां श्रुत्वा पुनर्जिनं नत्वा स्वनगरी प्रति गच्छन् गति स्खलितां विज्ञाय कारणजिज्ञासयाऽधः पश्यन् मामिह स्थितं दृष्ट्वा सकोपमुत्क्षप्तुमुपासरत् । मया च वामेन पाणिनाऽऽक्रान्तो विरसं रसन् सपरिवारो मां शरणं प्रपन्नो मया मुक्तो नानारूपाणि विकृत्येदं सङ्गीतकमकार्षीत" । ततः पुनः प्रियमित्रायोचे-"देव ! पूर्वभवे किं कर्माऽमुना कृतं येनाऽस्यैषा महीयसी ऋद्धिः?" ततो मेघरथः पुनरुवाच-"भरते पुष्कराधे सङ्घपुरे राज्यगुप्तो नाम कुलपुत्रोऽतिदुःस्थ आसीत् । तस्याऽनुरक्ता भक्ता च शङ्खिकानाम्नी पत्न्यासीत् । तौ द्वावपि परगृहेषु कर्माणि चक्राते । एकदा च तौ सम्भूय फलार्थ सङ्घगिरिं गतौ भ्रमन्तौ सर्वगुप्तं मुनि देशनां कुर्वाणं
KXXXXXXXXXX** RXXXXXXxxxxxx
॥
४॥
Jain Edustelternational
For Personal & Private Use Only
Janelinelibrary.org