SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ॥ ८३ ॥ वज्रमालिन्याख्यायाः पत्न्याः कुझावभयघोषजीवोऽच्युताच्च्युत्वा चतुर्दशमहास्वप्नम्मूचितोऽवातरत् । पूर्णे च समये जातो नाम्ना घनरथोऽद्याप्यवनीं पाति । विजयवैजयन्तौ विद्याधरौ जातौ युवां स्थः " । एवं पूर्वभवान् श्रुत्वा प्रसन्नो तौ मुनिं नत्वा प्राग्जन्मपितरं त्वां भक्त्या द्रष्टुमिहागतौ कुतूहलात्त्वदर्शनोपायभूतमनयोः कुक्कुटयोः सङ्कमणं प्रचक्रतुः । एतौ चेतो गत्वा भोगवर्धनमुनेरन्तिके प्रव्रज्य क्षीणकर्माणौ शाश्वतं पदं प्राप्स्यतः । तच्छ्र ुत्वा च प्रकटीभूय पूर्ववत्सुतमानिनौ तौ विद्याधरौ घनस्थं नत्वा गृहं जग्मतुः । तौ कुक्कुटौ च तच्छुत्वा प्रबुद्धौ पूर्वभवान् शोचन्त नृपं नत्वा स्वभाषया प्रोचतुः - देव ! किमद्याऽऽवां कुर्वहे, तद्धितमादिश" । ततो घनरथोऽवदत्-" अर्हन् देवो गुरुः साधुर्धर्मो जीवदया चवामस्तु" । तत्प्रतिपद्य च तावनशनं प्रपद्य मृतौ । भूतरत्नाऽटव्यां ताम्रचूल स्वर्णचूलसंज्ञौ भूतनायक भूत्वा विमानं विकृत्य पूर्वमत्रोपकारिणं मेघरथमुपेत्य नत्वा स्तुत्वा चैतद्विमानमधिरुह्य विश्वं पश्येति प्रार्थयताम् । ताभ्यां प्रार्थितश्च स मेघरथो विमानं सपरिच्छदोऽधिरूय ताभ्यां सम्पूर्णा पृथिवीं भ्रमयित्वा तानि तानि स्थानानि दर्श्यमानः पुनः पुण्डरीकिणीं प्राप्तवान् । तौ च भूतनायकौ तं राजकुते मुक्त्वा प्रणिपत्य रत्नवृष्टिं विधाय च स्वं स्थानं जग्मतुः । अथ लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थितो घनस्थो मेघरथं राज्ये दृढ़रथं च यौवराज्ये निवेश्य वार्षिकदानं दत्त्वा दीक्षां गृहीत्योत्पन्नकेवलज्ञानो भविकान् प्रबोधयन् महीं विजहार । मेघरथश्च दृढरथाऽन्वितो महीमशात् । Jain Education International For Personal & Private Use Only ********* ॥ ८३ ॥ www.jainelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy