SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ XXXXXXXXXXXXXXXXX ज्ञानोपयोगः कोपानलज्वालामालाकुलो ज्वलनप्रभ एवमचिन्तयत् , यदहो । एतेषां जह्न कुमारादीनां महापापानां मयै-* कवारमपराधः क्षान्तः, पुनरधिकतरमुपद्रवः कृतः, ततो दर्शयाम्येषामविनयफलम् । इहि ध्यात्वा ज्वलनप्रभेण तद्वधार्थ नयनविषा महाफणिनः प्रेषिताः, तैः परिखाजलान्तर्निगत्य नयनैस्ते कुमाराः प्रलोकिताः, भस्मराशीभूताश्च सर्वेऽपि सगरसुताः । तथाभूतांस्तान् वीक्ष्य सैन्ये हाहारवो जातः, मन्त्रिणोक्तमेते तु तीर्थरक्षां कुर्वन्तोऽवश्यभावितयेमामवस्था प्राप्ताः सङ्गतावेव गता भविष्यन्तीति किं शोच्यते ? अतस्त्वरितमितः प्रयाणं कियते, गम्यते च महाराजचक्रिसमीपम् । सर्वसैन्येन मन्त्रिवचनमङ्गीकृतम्, ततस्त्वरितप्रयाणकरणेन क्रमात्प्राप्तं स्वपुरसमीपे । ततः सामन्तामात्यादिभिरेवं विचारितं समस्तपुत्रवधोदन्तः कथं चक्रिणो वक्तुपायते ? ते सर्वे दग्धाः, वयं चाक्षताङ्गाः समायाता एतदपि प्रकामं त्रपाकरम् । ततः सर्वेऽपि वयं प्रविशामोऽग्नौ । एवं विचारयतां तेषां पुरः समायात एको द्विजः। तेनेदमुक्तम्-भो वीराः! किमेवमाकुलीभृताः? मुञ्चत विषादम् , यतः संसारे न किंचित्सुखम् , दुःखमत्यन्तमद्भुतमस्ति, भणितं च""कालंमि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नत्थि संविहाणं, जं संसारे न संभवइ ॥१॥" १. कालेऽनादौ, जीवानां विविधकर्मवशगानाम् । तद् नास्ति संविधानं यद् संसारे न संभवति ॥ १॥ अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि । सामन्तादिभिस्तद्वचः प्रतिपन्नम् । ततः स द्विजो मृतं बालकं करे धृत्वा मुष्टोऽस्मीति वदन् सगरचक्रिगृहद्वारे गतः। चक्रिणा तस्य विलापशब्दः श्रुतः। चक्रिणा स द्विज आकारितः, केन मुष्टोऽसीति चक्रिणा पृष्टः । स प्राह-देव! एक एव मे सुतः सर्पण दष्टो मृतः, एतदुःखेनाहं विलपा RXXX ॥२१॥ M Jain Educati otorary.org o For Personal & Private Use Only nal
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy