SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ र चक्कवट्टिस्स "द्वितीय श्रीसगरचक्रवर्ती कहा" ॥ २२ ॥ KXXXXXXXXXXXXXXX मीति । हे करुणासागर ! त्वमेनं जीवय, अस्मिन्नवसरे तत्र मन्त्रिसामन्ताः प्राप्ताः, चक्रिणं प्रणम्य चोपविष्टाः। तदानीं चक्रिणा राजवैद्यमाकार्यैवमुक्तम्, एनं निर्विषं कुरु ? वैद्येन तु चक्रिसुतमरणं श्रुतवतोक्तम् , राजन् ! यस्मिन कुले कोऽपि न मृतस्तत्कुलाद् भस्म यद्येष आनयति तदैनमहं जीवयामि । द्विजेन गृहे गृहे प्रश्नपूर्वकं भस्म मार्गितम् । गृहमनुष्याः स्वमातृपितृभ्रातदुहितप्रमुखकुटुम्बमरणान्याचख्युः। द्विजश्चक्रिसमीपे समागत्योवाच, नास्ति वैद्योपदिष्ट तादृशभस्मोपलब्धिः । सर्वगृहे कुटुम्बमनुष्यमरणसद्भावात् । [ चक्रिणोक्तं ] यद्येवं तत्किं स्वपुत्रं शोचसि ? सर्वसाधारणमिदं मरणम् । उक्तं च-- "२कि अस्थि कोइ भुवणे, जस्स जायाइं नेव यायाइं। नियकम्मपरिणईए, जम्ममरणाइं संसारे ॥१॥" २. किमस्ति कोऽपि भुवने, यस्य जातानि जातं नैव यातानि (यातम् ) । निजकर्मपरिणत्या, जन्ममरणानि संसारे ॥१॥ . ततो भो ब्राह्मण ! मा रुद ? शोकं मुश्च । आत्महितं कार्य चिन्तय । यावत्वमप्येवं मृत्युसिंहेन न कवलीक्रियसे । विप्रेण भणितम्-देव ! अहमपि जानाम्येवम् , परं पुत्रमन्तरेण सम्प्रति मे कुलक्षयः तेनाहमतीवदुःखितः, त्वं तु दुःखितानाथवत्सलोऽप्रतिहतप्रतापश्चासि, ततो मे देहि पुत्रजीवितदानेन मनुष्यभिक्षाम् ? चक्रिणा भणितं-भद्र ! इदमशक्यप्रतीकारम् । उक्तं च-- "'सीयंति सव्वसत्ताई, एत्थ न कम्मति मंततंताई। अदिट्ठपहरगंसि, विहिंपि किं पोरुसं कुणई ॥१॥" १. सीदन्ति सर्वसत्त्वानि, अत्र न क्रमन्ते मन्त्रतन्त्रादि । अदृष्ट प्रहरके विधिमपि कि पौरुषं करोति ।।१।। KXXXXXXXXXXXXX XXX:** ॥ २२॥ Jain Educ 81helorary.org a For Personal & Private Use Only tional
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy