SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ॥२३॥ __ ततः परित्यज्य शोकं, कुरु परलोकहितम् १ मूर्ख एव हृते नष्टे मृते करोति शोकम् । विप्रेण भणितं-महाराज ! सत्यमेतत् , न कार्योऽत्र जनकेन शोकः, ततस्त्वमपि मा कार्षीः शोकम् , असम्भावनीयं भवतः शोककारणं जातम् । सम्भ्रान्तेन चक्रिणा पृष्टं-भो विप्र ! कीदृशं मम शोककारणं जातम् ? विप्रेण भणितं-देव ! तव षष्टिसहस्राः पुत्राः कालं गताः । इदं श्रुत्वा चक्री वज्रप्रहाराहत इव नष्टचेतनः सिंहासनानिपतितो मूछितः, सेवकैरुपचरितश्च । मूर्छावसाने च शोकातुरमना मुत्कलकण्ठेन रुरोद, एवं विलापश्चि चकार । हा पुत्राः! हा हृदयदयिता! हा बन्धुवल्लभाः! हा शुभस्वभावाः! हा विनीताः! हा सकलगुणनिधयः! कथं मामनाथं मुक्त्वा यूयं गताः १ युष्मद्विरहातस्य मम दर्शनं ददत ? हा निर्दय पापविधे! एकपदेनैव सर्वास्तान् बालकान् संहरतस्तव किं पूर्ण जातम् ! हा निष्ठुरहृदय ! असह्यसुतमरणसन्तप्तं त्वं किं न शतखण्डं भवसि ? एवं विलपमानश्चक्री तेन विप्रेण भणित:--महाराज! त्वं मम सम्प्रत्येवमुपदिष्टवान, स्वयं च कथं शोकं गच्छसीति ? उक्तं च"परवसणंमि सुहेण संसारासारत्तं कहइ लोओ। णियबंधुजणविणासे, सव्वस्सवि चलइ धीरत्तं ॥१॥" २. परव्यसने सुखेन, संसारासारत्वं कथयति लोकः । निजबन्धुजनविनाशे, सर्वस्याऽपि चलति धीरत्वम् ।। १ ।। एकपुत्रस्यापि मरणं दुस्सहम् , किं पुनः षष्टिसहस्रपुत्राणाम् ? तथापि सत्पुरुषा व्यसनं सहन्ते । पृथिव्येव वज्रनिपातं सहते, नापर इति । अतोऽवलम्बस्व सुधीरत्वं, अलमत्र विलपितेन । यत उक्तम् XXXXXXXXXXXXXXXXXXXXXXX *॥२३॥ Prelibrary.org Jain Education international For Personal & Private Use Only
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy