________________
"द्वितीय
वकट्टिस्म
श्री सगरचक्रवर्ती चरितम्"
॥२४॥
(BXXXXXXXXXXXXXXXXXXXXKKKA
"सोयंताणं पि नो ताणं, कम्मबंधो उ केवलो। तो पंडिया न सोयंति, जाणंता भवरूवयं ॥१॥" ३. शोचतामपि न त्राणं, कर्मबन्धस्तु केवलः । तस्मात् पण्डिता न शोचन्ति, जानन्ता भवस्वरूपम् ।। २ ॥
एवमादिवचनविन्यासेविप्रेण स्वस्थीकृतो राजा, भणिताश्च तेनैव सामन्तमन्त्रिणः, “वदन्तु यथावृत्तं षष्टिसहस्रपुत्रमरणव्यतिकरम् ।” तैरुक्तः सकलोऽपि तद्वयतिकरः, प्रधानपुरुषैः सर्वैरपि राजा धीरतां नीतः, उचितकृत्यं कृतवान् । अत्रान्तरेऽष्टापदासन्नवासिनो जनाः प्रणतशिरस्काश्चक्रिण एवं कथयन्ति, यथादेव ! यो युष्मदीयसुतैरष्टापदरक्षणार्थ गङ्गाप्रवाह आनीतः, स आसन्नग्रामनगराण्युपद्रवति, तं भवान्निवारयतु देवः । अन्यस्य कस्यापि तन्निवारणशक्तिर्नास्तीति । चक्रिणा स्वपौत्रो भगीरथिभणितः-वत्स! नागराजमनुज्ञाप्य दण्डरत्नेन गङ्गाप्रवाहं नय समुद्रम् । ततो भगीरथिरष्टापदसमीपं गतः, अष्टमभक्तेन आराधितः समागतो नागराज भणति-किं ते सम्पादयामि १ प्रणामपूर्वकं भगीरथिना भणितम्-तव प्रसादेनामुं गङ्गाप्रवाहमुदधिं नयामि । अष्टापदासन्नलोकानां महानुपद्रवोऽस्तीति । नागराजेन भणितम् , विगतमयस्त्वं कुरु स्वसमीहितम् ! निवारयिष्याम्यहं भरतनिवासिनो नागान् । इति भणित्वा नागराजः स्वस्थानं गतः। भगीरथिनापि कृता नागानां बलिकुसुमादिभिः पूजा, ततः प्रभृति लोको नागवलिं करोति ।
भगीरथिर्दण्डेन गङ्गाप्रवाहमाकर्षन भज॑श्च बहून् स्थलशैलप्रवाहान् प्राप्तः पूर्वसमुद्रम् , तत्रावतारिता गङ्गा । तत्र नागानां बलिपूजा विहिता। यत्र गङ्गा सागरे प्रवाहिता, तत्र गंगासागरतीर्थ जातम् । गङ्गा जह्न नाऽनीतेति जाह्नवी, भगीरथिना नीति भागीरथी। भगीरथिस्तदा मिलित गैः पूजितो गतोऽयोध्याम् । पूजितश्चक्रिणा तुष्टेन
KXXXXXXXXXXXXXXXXXXXB
॥२४॥
Jan Educa
For Persons & Private Use Only
Thelibrary.org