________________
॥
७॥
XXXXXXXXXXXXXXXXXXX
कामदेवं पूजयन्ती केसरां सा च जयन्तिदेव हस्तात्पुष्पमाल्यं गृह्णन्तं वसन्तदेवं सानुरागं ददृशतुः। एतदनुकूलं शकुनमिति द्वयोरेव हर्षो जातः । धात्रीपुत्री प्रियङ्करा च द्वयोर्भावं लक्षितवती । जयन्तिदेवश्च वसन्तदेवस्य सातिशयं सत्कारमकरोत् । तदा च केसराप्रेरिता प्रियङ्कराऽपि ककोलादीन्यादाय मम स्वामिन्येतानीष्टदेवानि फलानि ते दत्तानीत्युक्त्वा दत्तवती । वसन्तदेवोऽपि चाऽस्या अहमभीष्ट इति हृष्टः सर्व स्वपाणिना जग्राह । एवं क्रमेण तयोः परस्परं स्नेहोऽवर्धत । अन्यदा च पश्चनन्दिगृहे मङ्गल्यतूर्य श्रुत्वा प्रेषितः स्वपुरुषैः कान्यकुब्जनिवासिने सुदत्तश्रेष्टिपुत्राय वरदत्ताय केसरा प्रदत्तेति वर्धापनकृते तूर्य वाद्यत इति ज्ञात्वा मूर्च्छया पतितः प्रियङ्करया समाश्वासितः-"केसरा त्वां सन्दिशति-यत्त्वया खेदो न कार्य, गुरवो मदभिप्रायाऽनभिज्ञाः । त्वमेव मम भर्ता भावी, अन्यथा मम मरणं ध्रुवम्" । ततो वसन्तः प्रीत ऊचे-"अस्माकमप्येषा प्रतिज्ञा-यत्केनाऽप्युपायेन केसरामुद्वहामि यममन्दिरं वा यामि"। ततः प्रातः केसरोद्वाहार्थं जन्ययात्रामागतां श्रुत्वा वसन्तदेवो नगरानहिरुद्यानं गत्वा केसराया अप्राप्ति निश्चित्य मुमूर्षरशोकतरुशाखायां स्वं पाशग्रन्थि गले दत्वोद्धबन्ध । तदानीमेव च निकुञ्जानिर्गत्य 'भो मा मा साहसं कापोंरि' ति जन्पन्नेकः पुरुषः समागत्य पाशग्रन्थिमच्छिदत् । वसन्तदेवदुःखं ज्ञात्वोवाच च-"विवेकिनः प्राणत्यागो न युज्यते, उपाया एवभीष्टप्राप्तये युज्यन्ते । अहमप्युपायाऽभावतोऽप्राप्याऽप्यभीष्टं वस्तु तन्निमित्तं जीवामि, यतो जीवन् नरो भद्रशतानि पश्यति कृत्तिकापुरवास्तव्यः। कामपालनामाऽहम् । देशान्तरदिदृक्षया निर्गतश्च शङ्खपुरं प्राप्य शङ्खपालयक्षोत्सवमीक्षितुमुद्यानं गतस्तत्र चूतनिकुञ्ज शुभदर्शनां कन्यकामेकामपश्यम् । तयाऽपि चाऽहं साऽनुरागं दृष्टः ।
KXXXXXXXXXXXXXXXXXXXXXXXX
॥
७॥
Jain Educati
national
For Personal & Private Use Only
Matinelibrary.org