SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पश्वमा "श्री चक्कवट्टिस्स कहा" श्रीशान्तिनाथ चक्रवर्तिचरितम्" श्वरश्च चत्वारो वणिक्पुत्राः सवयसोऽभूवन् । अन्यदा चाऽर्थोपार्जनार्थ ते चत्वारोऽपि गृहीतपाथेयाः सम्भूय रत्नद्वीपं प्रत्यचलन् । महाटवीं प्रविश्य तत्प्रान्ते क्षीणप्रायपाथेयास्ते प्रतिमास्थितं मुनिं दृष्ट्वाऽस्मै किश्चित्प्रयच्छामीति चिन्तयित्वा द्रोणकनामानं पाथेयवाहकमूचुः-"भो भद्र ! द्रोण ! अस्मै महर्षये किश्चिदपि देहि" । ततस्तेभ्योऽप्यधिकश्रद्धया स तं मुनि प्रत्यलाभयत् । तेन च तेन भहाभोगफलं कर्मोपार्जितम् । तथा ते रत्नद्वीपं प्राप्य व्यवहृत्याऽर्थमुपायं पुननिर्ज नगरं समाजग्मुः। तेन पुण्यबीजेन च ते सर्वदापि ननन्दुः । तेषु धनेश्वर-धनपती मनाग मायापरौ। द्रोणकश्च सर्वतः शुद्धवृत्तिः। स च द्रोणक आयुःक्षये विपद्य दानप्रभावाद् हस्तिनापुरेशितुः पुत्रस्त्वमभूः । त्वयि गर्भस्थे जननी मुखे विशन्तं चन्द्रं दृष्टवतीति तव पितृभ्यां कुरुचन्द्रेति नाम कृतम् । सुधनो धनदश्च द्वावपि मृत्वा काम्पील्यनगरे कृत्तिकापुरे च क्रमाद्वणिक्सतौ वसन्तदेवकामपालनामानौ जातौ । धनपतिर्धनेश्वरश्च विपद्य शङ्खपुरे जयन्त्यां पुर्या च क्रमान्मदिराकेसरानाम्न्यौ वणिकपुन्यौ बभूवतुः । ते चत्वारोऽपि च क्रमेण वर्धमाना यौवनं प्रापुः । एकदा वसन्तदेवो व्यवहारार्थ जयन्त्यां पुर्या प्रयायाऽथ समुपाजयत् । अष्टमीचन्द्रोत्सवे च यदृच्छया रतिनन्दनमुद्यानं गतः केसरां ददर्श । तयाऽपि च स स्निग्धया दृशा ददृशे । एवं तयोः प्राग्जन्मभवः स्नेहः परस्परं प्रादुरासीत् । ततो वसन्तदेवः प्रियङ्करं नाम वणिक्पुत्रं केयं कस्य च सुतेति पप्रच्छ । सोऽवोचत्-"इयं श्रेष्ठिनः पञ्चनन्दिनः पुत्री जयन्तिदेवस्य स्वसा केसरा नाम । ततो वसन्तदेवो जयन्तिदेवेन सह सौहृदं विधाय मिथो गृहे गतागतं समारेभे । एकदा च जयन्तिदेवेन निमन्त्रितस्तद्गृहं गतो वसन्तदेवः EXXXXXXXXXXXXXXXXXXX ॥६६॥ Jan Educa madonal For Persons & Private Use Only belorary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy