SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ॥६५॥ XXXXXXXXXXXXXXXXXXXX XXXX ऽन्तिके प्रव्रज्यामुपादत्त । ततश्च प्रभुः षट्त्रिंशतश्चक्रायुधादिकान् गणधरान् त्रिपदीमुपादिशत् । ते च तदनुसारेण द्वादशाङ्गीमसूत्रयन् । स्वामी च तेषामनुयोगगणाऽनुज्ञे अदत्त । भूयांसश्च नरा नार्यश्च प्रबुद्धास्तदानीं स्वामिनोऽन्तिके प्रव्रज्यां जगृहुः । केचिच्च सम्यक्त्वपूर्वकं श्रावकत्वं जगृहुः। प्रथमपौरुष्यां पूर्णायां स्वामिनि देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां गणधरे देशनाविरते सुरादयः स्वामिनं नत्वा स्वं स्वं धाम ययुः। तत्तीर्थे च समुत्पन्ने,-गजरथोऽसितवर्णः क्रोडास्यो दक्षिणाभ्यां बाहुभ्यां बीजपूराऽब्जधरो वामाभ्यां च नकुलाऽक्षसूत्रधरो गरुडाख्यो यक्षः, कमलासना गौरागी दक्षिणाभ्यां पुस्तकोत्पलधारिणी वामाभ्यां च कमण्डलुकमलधरा निर्वाणी देवी च-शासनदेवते प्रभोः सन्निहिते जाते । ताभ्यां सहितश्च भगवान् शान्तिवसुन्धरां विजहार । अथाऽन्यदा हस्तिनापुरमुपेत्य भगवान् समवासार्षीत् । तत्र च सपौरपरिच्छदस्तत्पुरेश्वरः कुरुचन्द्रो भगवन्तमुपतस्थे । यथास्थानं स्थितेषु च देवादिषु भगवान् देशनां विदधे । देशनान्ते च नत्वा कुरुचन्द्रो व्यजिज्ञपत्-"स्वामिन् ! केन पूर्वकर्मणाऽहमिह राज्यमासदम् ? । तथा ममोपायने प्रतिदिनं पञ्च वस्तुफलादीनि केन कर्मणा ढौकन्ते । तदिष्टेभ्यो दास्यामीति स्वयं नोपभुजे, न चाऽन्यस्मै तत्प्रयच्छामि, तत्केन कर्मणा ?" ततः प्रभुराख्यत्-"एत सर्व साधवे दानतस्तव राज्यश्रीरन्वहं पञ्चवस्तुढौकनं च । एषामप्रदानमभोगश्च पुण्यसाधारणत्वात् । बहुधा यधीनं वस्तु न खल्वेकेन भुज्यते । तत एव चाऽभीष्टेभ्यः प्रदास्यामीति चिन्ता ते जायते । जन्तूनां बुद्धि हि पूर्वकर्माऽनु| सारेण जायते । अस्यैव जम्बूद्वीपस्याऽस्मिन्नेव भरतक्षेत्रे कौशलाख्ये जनपदे श्रीपुरे नगरे सुधनो धनपतिधनदो धने ॥६५॥ For Personal & Private Use Only JainEducadol nelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy