SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ॥8 ॥ XXXXXXXXXXXXXXXXXXXXX विधातु का क्षमः १ परंतु सर्वापि संपत्प्राप्ता, तथापि स्वकीयसहोदरदर्शनाय तस्य महत्युत्कंठास्ति. अतस्त्वं तत्रागत्य स्वसंगमजनितसुखातिरेकेण तं परमप्रमोदयुक्तं कुरु ? यदि नागमिष्यसि तदा तवोपरि कुपितः सन् स महतीं बाधामुत्पादयिष्यति. यस्य द्वात्रिंशत्सहस्रराजानः सेवा कुर्वन्ति, तस्य चरणसेवनया तवापि न कोऽप्युपहासः, न दुःखं पञ्चभिः सहेति वचनात्. अतो मानं त्यक्त्वा समागच्छेति वचो निशम्य क्रुद्धो ललाटे त्रिवलिं विधाय भुजास्फोटं कुर्वत् जगाद. भोः कियन्मानं भरतः १ कियन्मात्राणि तस्य चतुर्दश रत्नानि ? कियन्मात्रास्तस्य सेवकाः १ एतस्य भरतस्य किं तद्विस्मृतं १ यत्पूर्व गंगातीरे बाल्यावस्थायामाकाशे कन्दुकवदुच्छालितः. पश्चाद्गगनानिपतन् कराभ्यां च धृतः, तन्मदीयं बलमेतस्य विस्मृतं विलोक्यते, यत्वं प्रेषितोऽसि. एतावदिनपर्यतं मया स वृद्धभ्राता पितेवाराधितः, अधुना तु मयोपेक्षितः, किं तेन गुणहीनेन लोभातुरेण वृद्धेनापि भ्रात्रा ? येनाष्टानवतिसंख्यामामपि सोदराणां राज्यानि गृहीतानि, ते तु कातरत्वेन लोकापवादभीत्या राज्यं त्यक्त्वा संयम ललुः, परं त्वहं न सहिष्यानि. मदीयभुजप्रहारं केवलं स एव भरतः सहिष्यति, परंतु तत्सहनार्थमन्यः कोऽपि नापास्यति, ततो याहि ? अवध्योऽसि, मदीयदृष्टेरपसरेति क्रोधारुणलोचनं सूर्यमंडलमिवोदिप्तं तदीयमुखमालोक्य सुवेगो भीतः सन् शनैः शनैरपससार. पश्चाद्वलित्वा क्षतमानो भूत्वा रथमारुह्य निर्गच्छतिस्म. बहलीदेशं विलोकयन् लोकवाक्यानि शुश्राव, अहो कियन्मानं भरतः ! यदस्मत्स्वामिना सार्द्ध युद्धं कर्तुं वाञ्छति, परमेतत्समानः कोऽपि मूखो नास्ति, येन सुप्तसिंहोच्छापनं कृतमिति लोकानां वाक्यानि शृण्वन् सुवेगो EXXXXXXXXXX XXXXXXXXXXXXXX Jain Educa t ional For Persona & Private Use Only Kelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy