SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ "पश्चमः चकवाट्टिस्स कहा" श्रीशान्तिनाथ चक्रवर्तिचरितम्" ॥६६॥ एकावल्यादिकं तपश्च विदधानायाः शुक्लध्यानस्थितायाश्च तस्या एकदा घातिकर्मक्षयात्केवलमुत्पन्नम् । क्रमेण च भवोपग्राहिकर्माणि क्षपयित्वा सा कनकश्रीरव्ययं पदमाससाद । बलविष्णू चापि विविधान् भोगान भुञ्जानौ सुखमग्नौ कालं गमयामासतुः। अथ बलदेवस्य विरताख्यायां दयितायां सुमति म कन्योत्पन्ना । वाल्यादेव सा जिनधर्मपरायणैकदोपवासान्ते पारणार्थ यावदुपविष्टा, तावत्कमपि मुनि द्वारागतं वीक्ष्य स्थालस्थापितान्नेन प्रतिलाभयति स्म। तदानीं च तत्र वसुधारादिकानि पञ्च दिव्यानि जज्ञिरे । मुनिरपि च ततः स्थानाद्विहुत्याऽन्यत्र जगाम । रत्नवृष्टिमाकण्यं तत्रागतो तां दृष्ट्वा विस्मितौ विस्मयजनकमेतस्याश्चारित्रमितिवादिनौ बलविष्णू कोऽमुष्या अनुरूपो वर इति चिन्तामग्नावीहानन्देन मन्त्रिणा मन्त्रयित्वा तस्याः स्वयम्बरमहोत्सवं निश्चिक्यतुः । वासुदेवाज्ञया च तत्र स्वयम्बरार्थं सर्वे नृपाः समाजग्मुः । ततः स्वयम्बरमण्डपे समुपविष्टेषु नृपेषु विलक्षणाऽलङ्कारनेपथ्या सुमतिः समागत्य स्वयम्बरमण्डपमद्राक्षीत् । तदानीमेव च तत्र मण्डपे देवतया रत्नसिंहासनस्थयाऽधिष्ठितं विमानमाविरभूत् । तद् दृष्टा सा सुमतिः सर्वे नपाश्च विस्मिता जाताः । तेषां पश्यतां च देवी विमानादवतीय मण्डपान्तरुपविश्य दक्षिणपाणिमुत्क्षिप्य सुमतिमचे "मुग्धे ! धनश्री ! बुध्यस्व, बुध्यस्व । प्राग्भवं स्मर । पुष्करद्वीपे प्राग्भरतस्य मध्ये श्रीनन्दनपुरे महेन्द्रनृप आसीत् । तस्य चाऽनन्तमतिनाम्नी पत्न्यासीत् । तया चैकदा निशाशेषे सुषुप्तया निजोत्सङ्गस्थिते पवित्रे पुष्पमाले स्वप्नो दृष्टः। XXXXXXXXXXXXXXXXXXXXXXXX Jain Educat For Persona 3 Private Use Only DAAIelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy