________________
॥६७॥
।
XX
राज्ञा च तवाऽनवद्यं पुत्रीद्वयं भविष्यतीत्युक्ता प्रमुदिता पूर्णे समये पुन्यौ जनितवती । तत्र प्रथमाऽहं कनकश्रीः, त्वं तु द्वितीयाधनश्रीः। क्रमाच्च परस्परप्रीत्या वर्धमाने ते कलाकुशले यौवनं प्रापतुः । एकदा च क्रीडन्त्यौ ते गिरिपर्वताख्यं पर्वतमेत्य तत्र स्वानि फलानि सुरभीणि पुष्पाणि च विचिन्वन्त्यौ भ्रमन्त्यावेकत्र प्रदेशे नन्दनगिरि मुनि विलोक्य प्रमुदिते तं त्रिः प्रदक्षिणीकृत्य भक्त्या ववन्दाते । स मुनिश्च धर्मलाभाशिषं दत्वा तयोधर्मदेशनां विदधे । तां देशनां श्रुत्वाऽन्ते ते प्राञ्जली योग्यताऽनुसारं धर्मादेशं प्रार्थयामासतुः। मुनिश्च योग्यतां विचार्य द्वयोरपि द्वादशविधं धर्म दिदेश । ते जगृहतुश्च । ततस्ते मुनि वन्दित्वा निजगृहं समेत्य सावधानं तं धर्म पयपालयताम् । कदाचिच्च कुतूहलाते अशोकवनिकां गत्वा तत्र नदीतटे विविधक्रीडया क्रीडन्त्यौ त्रिपुराधिपो वीराङ्गो युवा विद्याधरोऽहापौत् । तस्य भार्या च वज्रश्यामलिका ते तस्मात्त्याजयामास । ततस्ते द्वे अपि भीमाटव्यां नदीतीरे वंशजालोपरि गगनात्क्षणात् पेततुः । तामापदं मरणान्तं ज्ञात्वा शुभभावनावत्यौ ते नमस्कारपरायणे अनशनं विदधाते । तयोरहं कनकश्रीविपद्य सौधर्मेन्द्रस्याऽग्रमहिषी नाम्ना नवमिकाऽभूवम् त्वं धनश्रीश्च विपद्य कुबेरस्य महिषी भूत्वा ततश्च्युत्वाऽत्र बलभद्रस्य नाम्ना सुमतिः सुता जाताऽसि । तदा चाऽऽवयोः सङ्केतो जातो यत् “प्रथमं या च्यवते, सा द्वितीयया समुपेत्याऽहम बोधनीया" । तत्त्वां बोधयितुमहमेषेहाऽऽगताऽस्मि । संसारोदधितारणं जैन धर्म त्वं बुध्यस्व । नन्दीश्वरद्वीपे शाश्वतार्हतां ता अष्टाह्निका जङ्गमाहतां यथास्थानं जन्माधुत्सवान पुराभवे स्वानुभूतास्ता देशनावाचश्च स्मर । अनया जन्मान्तरनिद्रया किं विस्मरसि ? सिद्धः प्रियसखीतुल्यां परिव्रज्यामादत्स्व" । एव
॥६७॥
elibrary.org
JainEduca1
For Persons & Private Use Only