SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ॥१२३॥ KXXXXXXXXXX __ भविष्यति । एवं चित्रमुनिना प्रतिबोधितोऽपि सम्भूतो न निदानं तत्याज । यद्यस्य तपसः फलमस्ति, तदाहं भवान्तरे चक्रवर्ति भ्यासमिति निकाचितं निदानम् । ततो मृत्वा सौधर्मदेवलोके तौ द्वावपि देवौ जाती। ततश्च्युतश्चित्रजीवः पुरमतालनगरे इम्यपुत्रो जातः। सम्भूतजीवस्ततश्च्युतः कापिल्यपुरे ब्रह्मनामा राजा, तस्य चुलिनीनाम्नी भार्या, तस्याः कुक्षौ चतुर्दशस्वप्नसूचित उत्पन्नः । क्रमेण जातस्य तस्य ब्रह्मदत्त इति नाम कृतम् । देहोपचयेन कलाकलापेन च वृद्धिं गतः। तस्य ब्रह्मराक्ष उत्तमवंशसम्भृताश्चत्वारः सुहृदः सन्ति, तद्यथा--काशीविषयाधिपः कटकः, गजपुराधिपः कणेरदत्तः, कौशलदेशाधिपतिदीर्घः, चम्पाधिपतिः पुष्पचूलश्चेति । तेऽत्यन्तस्नेहेन परस्परविरहमनिच्छन्तः समुदिताश्चैव एकमेकं वर्ष परिपाटथा विविधक्रीडाविलासैरे कस्मिन् राज्ये तिष्ठन्ति । अन्यदा ते चत्वारोऽपि समुदिताश्चैव ब्रह्मराज्ये स्थिताः सन्ति । तस्मिन्नवसरे ब्रह्मराज्ञो मन्त्रतन्त्रौषधाद्यसाध्यः शिरोरोग उत्पन्नः । ततस्तेन कटकादिचतुणों मित्राणामुत्सङ्गे ब्रह्मदत्तो मुक्तः । उक्तं च यथैष मद्राज्यं सुखेन पालपति तथा युष्माभिः कर्तव्यमिति राज्यचिंता कारयित्वा ब्रह्मराजा कालं गतः। मित्रैस्तस्य प्रेत्यकर्म कृतम् , मिथश्चैवं भणितम् , एष कुमारो यावद्राज्यधुरा) भवति तावदस्माभिरेतद्राज्यं रक्षणीयमिति विचार्य सर्वसम्मतं दीर्घराजानं तत्र स्थापयित्वा कटक-कणेरदत्त-पुष्पचूलाः स्वस्वराज्ये जग्मुः । स दीर्घराजा सकलसामग्रीकं तद्राज्यं पालयति, भाण्डागारं विलोकयति, प्रविशत्यन्तःपुरम् , चुलिन्या समं मन्त्रयति । तत इन्द्रियाणां दुर्निवारत्वेन ब्रह्मराज्ञो मैत्रीमवगणय्य, वचनीयतामवमन्य चुलिन्या समं ※※※※※※※※※※※※ ॥१२३॥ Jain Educa IMKinelibrary.org t For Personal & Private Use Only ional
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy