SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ तस्य सेवा तु वयं न करिष्याम इति सर्वैरपि बांधवैरंगीकृतं, सर्वेऽपि श्रीऋषभस्वामिसमीपं निजवृत्तांत निवेदनार्थ गताः, तत्र प्रभं वंदित्वा करौ योजयित्वा विज्ञपयामासः, प्रभो मत्तोऽयं भरतोऽस्माकं राज्यं गृहीतमुद्यतः, वयं व यामः १ वयं तु श्रीतातदत्तैकदेशराज्येनापि संतुष्टाः स्मः, स तु षखंडण्ज्येनापि न संतुष्टः, इति तेषां वचनानि श्रुत्वा प्रभुः प्राह किमेतया नरकांतया राज्यलक्ष्म्या १ अनेन जीवेनानंतशो राज्यलक्ष्मीरनुभूता, तथापि न तृप्तो जातः, स्वप्नोपमोऽयं राज्यलीलाविलासः, यदुक्तं संपदो जलतरंगविलोला । यौवनं त्रिचतुराणि दिनानि ॥ शारदाभ्रमिव चञ्चलमायुः । किं धनैः कुरुत धर्ममनिद्यं ॥१॥ अतो भो पुत्राः कोऽयं मोहविलासः कस्य सुता ? कस्य राज्यं ? कस्य नायः १ किमपि सार्थे नागमिध्यतीति. यदुक्तं-द्रव्याणि तिष्टन्ति गृहेषु नार्यो। विश्रामभूमौ स्वजनाः स्मशाने ॥ देहं चितायां परलोकमार्गे। कर्मानुगो याति स एव जीवः ॥१॥ अतो राज्यं त्यजध्वं ? कुरुध्वमक्षयं मोक्षराज्यं ? इति प्रभुर्देशनां श्रुत्वा सर्वे| ऽपि प्रवजिताः, निरतिचारं चारित्रं च प्रपन्नाः, दूतैरागत्य भरताय तन्निवेदितं, तदा तेनापि बंधुसुतानाकार्य निजं निजं राज्यं दत्तं. तैः भरताज्ञा स्वीकृतं ततोऽपि चक्रमायधशालायां न प्रविशति, तदा सुषेणसेनापतिनागत्य नृपाय प्रोक्तं, प्रभो चक्रमायुधशालायां नायाति, चक्रिणोक्तं किं कारणं ? सुषेणोनोक्तं स्वामिन्नद्यापि कोऽपि रिपुः स्थितो विलोक्यते, चक्रिणोक्तं षट्खंडमध्ये मम शिरसि कोऽपि रिपुर्नास्ति. सुषेणेनोक्तं स्वामिन् भवतामनुजो बाहुबलिनामा भवदाज्ञां न मन्यते. अतोऽनुजोऽपि सन् यो वृद्धभ्रातुराज्ञां न मन्यते, स रिपुरेव ज्ञेयः, यस्याज्ञा स्वगृहेपि न XXXXXXXXXXX XXXXXXXXXXXXXXXX ॥ ७ ॥ Jain Educati Plelibrary.org For Personal & Private Use Only o nal
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy