SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ "अष्टमम् चक्कवाद्विस्स कहा" * सुभूम चक्रवर्तिचरितम्" ॥१०६॥ XXXXXXXXXXXXXXXX*:* वशेन तेन सर्वा अपि ताः कुब्जाकृतयः कृताः, स पश्चाद्वलितः, राजगृहाङ्गणे धुलिक्रीडां कुर्वत्येका राजपुत्री तेन दृष्टा, तस्या बीजपूरकं च दर्शितं, तद्गृहणाय तया करः प्रसारितः, तदा तेन राज्ञोऽग्रे निरूपितं यदियं मामभिलपतीति कथयित्वा गृहीता. पश्चाद्भीतेन राज्ञा सहस्रगवां गोकुलेन दासीवृन्देन च सहिता सा तस्मै दत्ता, तुष्टेन तेनाऽवशिष्टया तपःशक्त्या सर्वा अपि राजपुत्र्यः सजीकृताः, एवं सर्वमपि तपःक्षपयित्वा रेणुकां बालामादाय स वनमागतः, तत्र चाश्रमोटजानि विधाय स स्थितः. क्रमेण सा यौवनं प्राप्ता, परिणीता च. प्रथमर्नुकाले यमदग्निस्तस्यै कथयतिस्म, भो सुलोचने शृणु ? त्वदर्थमहं चरु मंत्रेणाभिमन्त्र्य समर्पयामि, येन तव चारुपुत्रो भवेत , ततो रेणुकयोक्तं भो स्वामिन् द्वौ चरू ममार्पय ? येनैकेन ब्राह्मणः पुत्रो भवेत् , एकेन च क्षत्रियः, क्षत्रियचरु हस्तिनागपुराधिपाऽनंतवीर्यनृपपरिणीतायाः स्वभगिन्या अनंगसेनाया अहं समर्पयिष्यामि. द्वितीयं चाहं भक्षयिष्यामि. एवं रेणुकायाः कथनेन तेन चरुद्वयं मन्त्रितं, स्वस्त्रियै च समर्पितं. पश्चाद्रेणुकया चिंतितं, मदीयः पुत्रः शूरो भवेत्तदा वरमिति विचार्य तया क्षत्रियचरुभक्षणं कृतं. द्वितीयो ब्राह्मणचरुरनगसेनायाः प्रेषितस्तया च भक्षितः, तस्याः पुत्रो जातः, तस्य च कीर्तिवीर्य इति नाम दत्तं. रेणुकायाः पुत्रस्य राम इति नाम दत्तं. यौवनमनुप्राप्तः, तदवसरे कश्चिदतीसाररोगपीडितो विद्याधरस्तदाश्रममागतः, रामेण तस्य प्रतिपत्तिः कृता, औषधप्रयोगेण तस्य स्वास्थ्यं कृतं. हृष्टेन विद्याधरेण रामाय परशुविद्या दत्ता, तेन च सा साधिता, ततस्तस्य परशुराम इति नाम प्रसिद्धं जातं. देवताधिष्ठितं कुठारायुधं गृहीत्वा स इतस्ततः परिभ्रमति केनाप्यजेयः, KXXXXXXXXXXXXXXXXXXXXXXX:* ॥१०६॥ Jain Educa t ional For Personal & Private Use Only polibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy