________________
॥१०॥
XXXXXXX
KXEXXXXXXXXXXXXXXXXXXXXX
दृष्टः, तत्परीक्षायै चटकचटकिकयोः स्वरूपं कृत्वा तत्श्मश्रुणि कुलायं बद्ध्वा तौ स्थिती. तत्र स्थितश्चटको मनुष्यभाषया प्रोवाच भो बाले त्वमत्र सुखं तिष्ट ? अहं हिमवत्पर्वते गत्वा समागच्छामि, तदा चटकिकयोक्तं भो प्राणेश्वर अहं त्वां गन्तुं न अनुमन्ये, यतो यूयं पुरुषा यत्र गच्छथ तत्रैव लुब्धा भवथ, यदि पश्चान्नागच्छथ तदा मम का गतिः? अहमबलैकाकिनी कथमत्र तिष्ठामि ? त्वद्वियोगः कथं मया सोढुं शक्यते ? तदाकर्ण्य चटकेनोक्तं हे बाले किमर्थं कदाग्रहं करोषि ? अहं सत्वरमेव समागमिष्यामि, यदि नागच्छामि, तदा मम ब्रह्मस्त्रीभ्रूणगोघातपातक, तदापक्षिण्योक्तमहमेनं शपथं नानुमन्ये, परं चेद्यदि यमदग्नितापसपातकं शिरसि गृह्णीयास्तदाज्ञां समर्पयामि तदा तेनोक्तं मैवं वद १ एतत्पापं कोऽङ्गीकरोति ? एतत् श्रुत्वा यमदग्निानाचलितः, क्रोधवशो भूत्वा चटकं चटकिकां च गृहीत्वा कथयतिस्म किमियन्मम पातकमस्ति ? चटकिकयोक्तं भो मुने त्वं क्रोधं मा कुरु ? भवतो धर्मशास्त्राण्यवलोकय ? यतः--अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च ।। तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्गे गच्छंति मानवाः॥१॥ इति ॥ । अतो अपुत्रिणो भवतः कथं शुभा गतिर्भाविनी ? ततस्तव पातकं महदित्युक्त्वा परीक्षा कृत्वा देवी स्वस्थानं गतो. मिथ्यागपि परमजैनो जातः, पश्चाद्यमदग्निरपि पक्षिणो मुखात् श्रुत्वा मनसि विचारयति, सत्यमेतत् , स्त्रीकरपीडनं कृत्वा पुत्रमुत्पादयामि तदा मम गतिर्भवति. इति संचित्य कोष्टकनगरपतिजितशत्रसमीपमागत्य तेन कन्या मार्गिता. राज्ञोक्तं मम पुत्रीणां शतं, तासां मध्ये या भवन्तमभिलपती तां गृहाण ? तदाकण्य सोडन्तःपुरमागतः, तत्र स्थिताभिः कन्यामिर्जटाजूटधारिण दुवलं मलमलीन गात्रं विपरीतरूपं यमदग्निमालोक्य धृत्कारः कृतः क्रोध
XXXXXXXX
॥१०॥
Jain Educa
t
ional
For Persona & Private Use Only
keahelbrary.org